________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्ष खण्डे
सिद्धान्ती समाधत्ते - " न " - इति । विकल्पद्वयं करोति - " तस्य ' - इति । भवन्मतसिद्धक्षणिक विज्ञानस्येत्यर्थः । जगद्विषयकत्वे = यावद्वस्तुविषयकत्वे, सर्वज्ञत्वापत्तिः जीवात्मनामिति शेषः । श्रर्थात् हे ! योगाचार ! भवदभिमतविज्ञानस्य को विषयः ? सर्वञ्जगद् ? जगदन्तःपाती कश्विदेव वा पदार्थः ? श्रद्ये- सर्वज्ञत्वात्सर्वः सर्वानीयात् परं नतु जानाति तस्मान्नाद्यः पक्षः क्षोदक्षमः । द्वितीये - सुषुप्तावपि विषयप्रतीति: सम्भवेत् । यत्किञ्चित्पदेन गृहीतस्य यस्य कस्यापि घटादेः पदार्थस्य तद्विषयत्वेन एकपक्षपातिन्या युक्तेरभावात् सुषुप्तौ विषयाः प्रतीयेरन् । श्रालयविज्ञानं तत्र वर्त्तत इति तव मतं तच्च न निर्विषयम्भवितुमर्हतीति युक्रम्, तदा श्रन्यतमविषयस्फुरणमित्यभिप्रायेणाह - " ज्ञानस्य सविषयत्वात् " - इति ।
(मुक्का० ) तदानीं निराकारा चित्सन्ततिरनुवर्तत इति चेन्न, तस्याः स्वप्रकाशत्वे प्रमाणाभावात् । अन्यथा घटादीनामपि ज्ञानत्वापत्तिः । न चेष्टापत्तिर्विज्ञानव्यतिरिक्तवस्तुनोऽभावादिति वाच्यम्, घटादेरनुभूयमानस्यापलपितुमशक्यत्वात् । आकारविशेष एवाऽयं विज्ञानस्येति चेत्, किमयमाकारो ऽतिरिच्यते विज्ञानात्तर्हि समायातं विज्ञानव्यतिरिक्तेन । नातिरिष्यते चेत्तर्हि समूहालम्बने नीलाकारोऽपि पीताकारः स्यात्, स्वरूपतो विज्ञानस्याऽविशेषात् ।
( प्रभा० ) पुनबौद्धः शङ्कते - " तदानीम् " - इति । सुषुप्तिकाल इत्यर्थः । निराकारा = निर्विषया । चित्सन्ततिः - विज्ञानधारा । श्रनुवर्त्तते विद्यते इत्यर्थ: । इति श्चेत्=यद्येवम्ब्रूषे, न=तन्न युक्तमित्यर्थ इति सिद्धान्ती खण्डयति - " तस्या"इति । तस्याः = निराकाराया निर्विषयायाश्चित्सन्ततेः । स्वप्रकाशत्वे = ज्ञानस्वरूपत्वे | " प्रमाणाभावात् " - - इति । ज्ञानत्वस्य - विषयिताव्याप्यत्वादित्यर्थः । सुषुप्तौ निर्विषया चित्सन्ततिरनुवर्त्तत इत्यत्र न किमपि मानम्पश्याम:, प्रमाणेन विना तदा कथं सा सिध्येत्, विना प्रमाणम्प्रमेयसिद्धयङ्गीकारे गगनकुसुमादीनामप्यभ्युगमप्रसङ्गोऽनिवार्यः स्यात् । किञ्च - नहि निर्विषयं विज्ञानम्, ज्ञानत्वस्य + विषयताव्याप्यत्वनियमादिति भावः । अन्यथा = यदि विनैव प्रमाणं सुषुप्तौ ज्ञानमङ्गीक्रियेत तदा । "घटादीनाम् " - इति । घटपटादिविषयाणामपि ज्ञानस्वरूपापत्तिः, अर्थात् जाग्रदावस्थाकालेsपि घटादि पदार्थसत्ता न स्वीकर्त्तव्या ।
१४२
8 यत्तु - "नचेष्टापत्ति:- यदपं तन्मर्त्यम् (छान्दो० ९४ खं० । ७ प्र० । २ कं० ) इति श्रुतेरल्पज्ञत्वोपगमात्तस्येति भाव" इत्याह कश्चित्तन्मन्दं योगाचारम्प्रति श्रुतेरप्रामाण्यात्, “तदल्पमविद्याकालभावी”ति भाष्यकारविवरणाभिप्रायविरुद्धत्वात् भूमातिरिक्तस्य सर्वस्यैव बाध्यतार्थविवक्षणार्थंकत्वाच्छ्रुते:, अल्पज्ञतारूपार्थबोधने सर्वथैवौदासीन्याच्चेति ।
↑ “यत् ज्ञानं तत्सविषयकम्" इति व्याप्तिः । घटपटादिविषयसत्तेत्यर्थः ।