________________
क्षणिकविज्ञानवादिनो योगाचारस्य मतम्,
तन्निरासश्च ।
क्षणिकत्वञ्च द्वितीयक्षणवृत्तिध्वंसप्रतियोगित्वम् = एकक्षणमात्रस्थायित्वमेव विज्ञानवादनये । यद्यपि अस्य मते सर्वं वस्तु विज्ञानमेव तथापि श्रात्मप्रकरणत्वात् " श्रात्मा" इति विशिष्योक्तम् ।
१४१
* एतद्विविधम्प्रवृत्तिविज्ञानमालयविज्ञानञ्चेति । "अयं घटः " " अयम्पट: " इत्याकारकं विज्ञानम् "प्रवृत्तिविज्ञानम्" । " अहमहम्" इत्याकारकं विज्ञानम् "आलयविज्ञानम्" इत्युच्यते । विज्ञानम्बुद्धिरित्यनर्थान्तरम् ।
"
ननु - विज्ञानापरपर्याया बुद्धेः कथञ्चेतनत्वञ्जडायास्तस्या आत्मत्वायोगादित्याह – “तस्य स्वतः प्रकाशरूपत्वात् " - इति । स्वतः प्रकाशत्वञ्च स्वपरन्यवहारे स्वभिन्नप्रकाशानपेक्षत्वम् । “ज्ञानसुखादिकम् ” – इति । तुना पक्षान्तरं व्यावर्त्यते । तस्यैव-विज्ञानस्यैव श्राकारविशेषः निर्विशेषस्यापि सांवृतिको विशिष्ट आकारः । अर्थात् “श्रहञ्जानामि” “अहं सुखी" इत्याद्यनेकाकारं विज्ञानमेव सुखादिरूपेण भासते, न ततो भिन्नमित्यर्थः । विज्ञानस्य एव सुखादय श्राकाराः संवृत्या पृथगिवाऽवभासन्ते । "भावत्वादेव" - इति । " यत् सत् तत्क्षणिकम्” इति व्याप्तेः । यथा . दीपशिखा भावरूपत्वात् क्षणिका = प्रतिक्षणम्परिणामवती तथैव सर्वं वस्तु भावत्वात् क्षणिकम्, तथा च विज्ञानमपि ।
ननु – क्षणिकं विज्ञानञ्चेदात्मा तदा सुषुप्तिर्न सिद्धयेत्, तदा पूर्वविज्ञानस्य नष्टत्वाद्विज्ञानान्तरस्य चाभावादत आह- - " पूर्व पूर्व " -- इति । पूर्वपूर्वविज्ञाननिष्ठा या जनकता तादृशजनकता निरूपिता या जन्यता उत्तरोत्तरविज्ञाननिष्ठा तत्त्वादित्यर्थः । सुषुप्तावपि=गाढ निद्रावस्थायाम्पुरीत द्देशावस्थितमनः संयोगरूपायामपीत्यर्थः । श्रालयविज्ञानधारा=ग्रालयविज्ञानसन्ततिः । निराबाधैव=प्रमाणान्तरबाधशून्यैव ।
सारार्थस्तु - यद्यपि पूर्वम्पूर्व विज्ञानं नश्यति, उत्तरमुत्तरचोत्पद्यते, सुषुप्तौ च विज्ञानोत्पादिका सामग्री नास्ति, तथापि " अहमहम्" इत्याकारा श्रालयविज्ञानसन्ततिस्तन्नाप्यनुवर्त्तत एवेति न सुषुप्तावात्मनोऽभावः । यद्यपि तत्र प्रवृत्तिविज्ञानं नास्ति, प्रालयविज्ञानन्तु वर्त्तत इति तत्त्वम् ।
ननु - क्षणिकञ्चेद्विज्ञानं, विज्ञानाश्रिता विज्ञानस्वरूपा संस्कारा श्रपि क्षणिकाः तेषां नष्टत्वात् तव मते कस्यापि स्मृतिर्न स्यादत श्राह - " मृगमदवासना " - इति । यथैकस्मिन्नेव वस्त्रपुटे मृगमदः - कस्तूरिका तिष्ठति, किन्तु सर्वाण्येव वस्त्रपुटकानि तद्वासनावासितानि जायन्ते, उत्तरोत्तरस्मिन् पुटके मृगमदवासनायाः सङ्क्रान्तत्वात् तथेहापि पूर्वपूर्वविज्ञानोत्पन्नाः संस्कारा उत्तरोत्तरस्मिन्विज्ञाने सङ्क्रमन्ते इति न स्मृतेरसिद्धिर्मम मत इति भावः । " इति " - इत्यन्तः सर्वो ग्रन्थः पूर्वपक्षिणः ।
* क्षणिकविज्ञानञ्च । त्वर्थे चायं चः पठितः ।
↑ संवृणोत्यात्मनो रूपमिति “संवृतिः” अविद्या तयेत्यर्थः ।