________________
१४०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
चेतनमित्यर्थः । तत्र हेतुमाह-"ज्ञानादीति" इति । ज्ञानेच्छादीनां विशेषगुणानाम् “जाने इच्छामि” इत्याद्याकारकम्प्रत्यक्षं न स्यादित्यर्थः । तदेव विवृणोति"मनसोऽणुत्वात्" इति।
अस्यायमाशयः-मनोऽणुपरिमाणं तस्यैव न तावत्प्रत्यक्षम्, कुतः पुनः तदाश्रितानां सुखादीनाम्प्रत्यक्षसम्भावनापि । ऋषिरपि-"छयुगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमिति" (न्या० १।१।१६) इति मनसोऽप्रत्यक्षत्वमाचष्टे । सन्ति तु सुखादयः प्रत्यात्मवेदनीयाः, नचैषाम्प्रत्यक्षोपलब्धिरपलपितुं शक्यते । किञ्च मनस आत्मत्वस्वीकारे पूर्व क्लुप्ता कतत्वशक्तिस्तस्मिन्नुपादीयेत तत्पूर्णतायै च करणान्तरं कल्प्येत इति किमपूर्व वादिना कृतं स्यादित्यतिसङ्केपः । “वक्ष्यते" इत्यग्रे पञ्चाशीतिसङ्ख्यायां कारिकायां | साधयिष्यते इत्यर्थः । ..
. इति मनात्मवादखण्डनम् ।
(मुक्का०) नन्वस्तु-विज्ञानमेवात्मा, तस्य स्वतःप्रकाशरूपत्वा: चेतनत्वम् , ज्ञानसुखादिकन्तु तस्यैवाकारविशेषः, तस्यापि भावत्वादेव क्षणिकत्वम्, पूर्वपूर्वविज्ञानस्योत्तरोत्तरविज्ञानहेतुत्वात् सुषुप्तावप्यालय विज्ञानधारा निराबाधैव, मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञान जनितसंस्काराणामुत्तरोत्तरविक्षाने सक्रान्तत्वान्नानुपपत्तिः स्मरणादेरिति चेन्न, तस्य जगद्विषयकत्वे सर्वज्ञत्वापत्तिः । यत्किञ्चिद्विषयकत्वे विनिगमनाविरहः । सुषुप्तावपि विषयावभासप्रसनाच, ज्ञानस्य सविषयत्वात् ।
(प्रभा०) क्षणिकविज्ञानवादी योगाचारः शङ्कते–“ननु" इति । "विज्ञानम्" इति । क्षणिकविज्ञानमित्यर्थः । विज्ञानत्वम्प्रमेयत्वस्य सत्त्वस्य ब्यापकं नवेति विप्रतिपत्तिः । तत्र विधिकोटिर्योगाचारस्य निषेधकोटिनैयायिकस्येति बोध्यम् ।
* युगपत् एककाले एकात्मनि ज्ञानानामनुत्पत्तिर्यतः स एव धर्मो ज्ञानकारणाणुत्वं नाम मनसो लिङ्ग लक्षणमिति सूत्रार्थः । आत्माधिष्ठितानां घ्राणादीनामिन्द्रियाणां गन्धादिभिः स्वस्वसन्निकर्षे सत्यपि यस्य कारणान्तरस्य असंयोगात् रसनेन रसगोचरं ज्ञानं न जन्यते, घ्राणेन च संयोगाद्गन्धगोचरं ज्ञानअन्यते, तदेव कारणान्तरमन्तःकरणसंज्ञक मन इति भाव:
+ अत्रैवं वदन्ति–यद्यपि मानसान्यप्रत्यक्षम्प्रत्येव महत्त्वस्य कारणत्वोपगमे नैष दोषः, अत एव माध्वादिमते जीवानामणुत्वमेवाङ्गीकृतम् , तथापि—मानसान्यत्वप्रत्यक्षत्वयोविंशेषणविशेष्यभावे विनिगमनाविरहेण गुरुतरकार्यकारणभावद्वयापत्त्या गौरवापत्तेने तथोपगमसम्भवः, नच-सिद्धान्तिमते अनन्तजीवानां कल्पनीयतया कारणताद्वयकल्पने गौरवमिति वाच्यमनेकजीव: कल्पनागौरवस्य फलमुखत्वेनाऽदोषत्वादिति भावः ।.