________________
इन्द्रियात्ममनात्मवादिनोर्मतनिरास: ।
१३६
शेषः । कथं स्मृतिः स्यात् न कथमपीति भावः । तत्र हेतुमाह--"अनुभवितु. रभावात्" इति । स्मृतिज्ञानाधिकरणस्यात्मनो नष्टत्वादित्यर्थः । भवति तु पूर्वञ्चतुष्मत: पश्चादन्धभावम्प्राप्तस्यापि पुरुषस्य प्रत्ययः “यौ पितरावद्राक्षं तौ स्मरामीति” । एवमनुभवितुरेव स्मृतिदर्शनान्नेन्द्रियाण्यात्मेति भावः । चक्षुषोऽनुभूतानाम्-चक्षुषा साक्षात्कृतानां रूपाद्यर्थानाम् ।
ननु--इन्द्रियान्तरेण स्मृतिर्भविष्यतीति ? अत पाह--"अन्य दृष्टस्य"इति । स्मरणासम्भवात् अनुसन्धानाभावादित्यर्थः । नह्यन्यदृष्टमन्यः स्मरतीति नियमः। वैपरीत्ये रामदृष्टं कृष्णोऽपि स्मरेत् । अत्र हेतुं वक्ति-"अनुभव. स्मरणयोः"-इति । सामानाधिकरण्येन-एकाधिकरणसम्बन्धेन एकात्मतारूपाधिकरणे समवायसम्बन्धावच्छिन्नवृत्तित्वेनेत्यर्थः । कार्यकारणभावात्-अनुभव: संस्कारद्वारा कारणं, स्मृतिः कार्यम् । यत्रानुभव: तत्रैव स्मरणमिति नियम इति भावः ।
__ किञ्च-सर्वाणीन्द्रियाणि सम्भूय एकस्मिञ् शरीरे एक प्रात्मा ? अाहोस्वित् प्रत्येकं नाना श्रात्मानः ?। श्राद्ये नष्टेऽपि श्रोत्रे चक्षुषा शब्दसाक्षात्कारः स्यात्, किंवा किमपि रूपादिकं न भायात्, आत्मनो नष्टत्वात् । "मृतोऽयम्" इत्यबाधितः प्रत्ययश्च सर्वस्य सर्वत्र समुन्मिषेत् । द्वितीये तु प्रत्येकं सर्वेषां स्वातन्त्र्ये कदाचिदनैकमत्ये विरुद्धदिक्क्रियैस्तैरधिष्ठितं शरीरं विदीर्येत । यदि च तानि नैव सर्वथा स्वतन्त्राणि, तर्हि यत्तन्त्राण्येतानि स एवात्मा इन्द्रियभिन्नो रूपादिविषयेषु यथेच्छमिन्द्रियाणाम्प्रवर्तकः कुठारप्रवर्तक इव तक्षेति । या च "अहं काण" इत्याकारा प्रतीतिः इन्द्रियात्मसाधनायोपन्यस्ता, साच "मम देह" इति प्रत्ययवत् ‘‘ममेन्द्रियम्' इतिबाधकप्रत्ययसद्भावाद्भावेति नतरामिन्द्रियात्मवादिमतमपि सम्यक् ॥४८॥
इतीन्द्रियात्मवादखण्डनम् ।
(का०) मनोऽपि न तथा ज्ञानाधनध्यक्षन्तदा भवेत् । .
(मुक्का०) ननु-चक्षुरादीनाञ्चैतन्यं मास्तु मनसस्तु नित्यस्य चैतन्य स्यादत पाह-मनोऽपीति । न तथा, न चेतनम् । ज्ञानादीति । मनसोऽ. णुत्वात्प्रत्यक्षे च महत्त्वस्य हेतुत्वान्मनसि ज्ञानसुखादिसत्त्वे तत्प्रत्यक्षा. नुपपत्तिरित्यर्थः । यथा मनसोऽणुत्वं तथा वक्ष्यते ।
(प्रभा०) मनात्मवादी शङ्कते-"ननु"-इति । "नित्यस्य" इति । नित्यम्मन इति नैयायिकैरपि स्वीक्रियते, प्रात्मा च नित्यः, एवं सति इन्द्रियाद्यात्मवादपक्षे कृतविप्रणाशादिरूपो यो दोष: सोऽप्येतस्मिन्मते न भविष्यतीति पूर्वपक्षिणोऽ. भिप्रायः । सिद्धान्ती उत्तरयति-"न तथा"-इति । इन्द्रियवन्मनोऽपि न