________________
१३८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षख एडे
स्वयमपि बहुवित्तव्ययायासङ्कुर्वाणा नि:स्वार्थाः परमविरक्ताश्च वेदप्रमाणवादिनो ब्राह्मणा व्यासाद्या भ्रान्ताः प्रतारका वा भवितुमर्हन्ति । प्रत्यक्षादतिरिक्तमनुमानाद्यप्यस्त्येव प्रमाणं न प्रत्यक्षमात्रम् । अन्यथा गृहाद्गतम्पतिमपश्यन्ती चार्वाक कामिनी मृतम्मत्वा सोरःस्ताडमाक्रन्देत् । पत्रादिलिङ्गेन तत्सत्ताज्ञाने त्वनुमानप्रमाणस्वीकार इति सर्वथा युक्तिप्रमाणविरुद्धं * चार्वाकमतमिदमनादेयं कल्याणेप्सुभिरिति सक्षेपः ।
इति चार्वाकमतखण्डनम् ।
(मुक्ता०) ननु-चक्षुरादीनामेव ज्ञानादिकम्प्रति करणत्वं कर्तृत्व. वास्तु विरोधे साधकामावादत आह-तथात्वमिति । तथात्वचैतन्यमित्यर्थः । उपघाते नाशे सति अर्थाश्चक्षुरादीनामेव । कथमिति । कथं स्मृतिः, पूर्वञ्चक्षुषा साक्षात्कृतानाञ्चक्षुषोऽभावे स्मरणं न स्यात्, अनुभवितुरभावात् । अन्यदृष्टस्यान्येन स्मरणासम्भवात् । अनुभवस्मरणयोः सामानाधिकरण्येन कार्यकारणभावादिति भावः ॥४८॥
(प्रभा०) सम्प्रति चार्वाकैकदेशी "काणोऽहजानामि" इत्यहम्प्रत्ययबलादिन्द्रियाण्येवात्मेति शङ्कते-"ननु" इति । "करणत्वम्" इति । करणम् साधकतमम्, तस्य भावस्तत्त्वम् । कर्त्तत्वम्-क्रियानुकूलकृतिमत्त्वञ्च एतद् द्वयमपि चक्षुरादीन्द्रियाणामेवास्तु धर्मः । तदतिरिक्तात्मस्वीकारो वृथैवेति भाव: । ननुकथन्तदेव करणं कर्ता च उभयोर्विरुद्धस्वभावत्वादित्याह--"विरोधे साधका. भावात्"--इति । विरोधे भिन्नाधिकरणवृत्तित्वे । साधकाभावात्=प्रमाणाभावादित्यर्थः । अयम्भावः-विरुद्धमिति क नः सम्प्रत्ययो यत्प्रमाणासहिष्णुत्वं नाम । यत्तु-प्रमाणेन तथैव सम्प्रतिपन्नं यथार्हतानामेकस्मिन्नेव सदसती तत्कथं विरोधः ? तदेतत्सिद्धान्ती खण्डयति-"तथात्वमिति"-यदीन्द्रियाणाञ्चैतन्यं धर्मः अर्थाद् इन्द्रियाएयेव क्रियानुकूलकृतिमन्ति (कर्तृणि) तदा उपघाते-इन्द्रियनाशे “सती"ति वक्तृयथार्थशानरूपगुणजन्यम्प्रमाणशब्दत्वात् महाभारताद्यन्तर्गतवाक्यवत् । अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावधोतिनः सर्वशकल्पस्य भगवतो वेदस्य रचनया अवश्यम्बुद्धिपूर्विकया भाव्यम् । तत्र-अस्मदादिबुद्धिपूर्वकत्वासम्भवात् सर्वज्ञेश्वरबुद्धिपूर्वकत्वसिद्धौ प्रामाण्यं निराबाधमिति भावः ।
* "चारः" लोकसम्मतो "वाकः" वाक्यं यस्य स "चार्वाक'' इति व्युत्पत्तेरन्वर्थेयं संज्ञा । अस्यापरं नाम “लौकायतिक" इति । लोके आयतं विस्तीर्णम्प्रसिद्धमिति यावत् यत् प्रत्यक्षम्प्रमाणं तल्लोकायतम् , तत्प्रतिपादकं शास्त्रमपि लोकायतं । "तदधीते तद्वेद" (४।२।५६ ) इति सूत्राधिकारे-"ऋतूक्थादिसूत्रान्ताक्" (४।२।६०) इत्यनेन उक्थादिगणान्तर्गतात् लोकायतशब्दात् ठक् प्रत्ययः । लोकायतमधीते वेद वेति लौकायतिकः ।