________________
m
चार्वाकमतखण्डनम् ।
१३७ . यावजीवं सुखं जीवेणं कृत्वा घृतं पिबेत् । .....
भसीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति । ... . . धूर्ती एव स्वार्थलोलुपाः लोकसुखवञ्चका बहुवित्तव्ययायासलाध्ये अग्निहोत्रादिकर्मणि प्रवर्तयन्ते, नास्ति वेदा: प्रमाणमिति । उक्तञ्च- ........
अभिहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । .... :
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ अस्य मतस्य प्रवर्तको बृहस्पतिर्देवगुरुरिति केचित् । एतन्नामा अन्य एव पुरुष इत्यन्ये । अस्यैव देहात्मवादमतस्य. मुक्तावलीकारेण सिद्धान्तयुक्त्या सङ्क्षिप्तखण्डनं कृतम् । यस्यायमाशयः-.. ... . . - नास्ति. देह प्रात्मा, किन्तु तद्भिन्नः पुण्यापुण्यकर्ता तत्फलभोक्ता च । यदि देह एवात्मा स्यात्तदा राजरङ्कादिव्यवस्था न सम्भवेत्, नहि पुण्यं कर्म विना कश्चिद्राजा भवेत् कश्चिद्वा पापं कर्म विना रङ्कः । श्रपि च देहस्यात्मत्वे अकृतकर्मणां फलावाप्तिः, कृतकर्मणाश्च विनैव फलदानं नाश इत्यकृताभ्यागमप्रसङ्गो दुर्वारश्चार्वाकस्य । ...
किञ्च-देहाद्भिन्न अात्मा न चेत् ? तर्हि जन्मकाल एव बालः स्तन्यपानकर्मणि न ?- प्रवर्तेत, नहि पूर्व स्तनपानसुखं केनचिद्वालेन (जन्तुना) पूर्वस्मिञ्जन्मन्यनुभूतं येन इष्टसाधनतास्मरणेन तत्र प्रवर्तत, प्रवृत्तिमात्रम्प्रति इष्टसाधनताज्ञानस्य हेतुत्वात् । अनुभवसंस्कारस्मृतीनाञ्च एकस्मिन्नेवाधिकरणे नियमः, तथा च सिद्धो देहादप्तिरिको ज्ञानेच्छासुखादिगुणवानात्मा, तसिद्धौ च पुनर्भवोऽप्यवश्यम्भावी परलोकसाधकः, सुखदुःखादिवैचित्र्यञ्च स्वहेतुभूतमदृष्टं * विनाऽनुपपन्नं तदनुमापकम् । ऐहिकं सुखन्तु न परः पुरुषार्थो दुःखानुषक्तत्वात् । नापि मृतिर्मोक्षः, किन्तु एकविंशतिदुःखध्वंस एव । वेदाश्च । वक्तृयथार्थवाक्यार्थधीगुणजन्यत्वात्प्रमाणमेव । नच
* इदमुपलक्षणञ्चटकादिजन्तूनाञ्चुकारपूर्वककणादानादिप्रवृत्तेरित्यपि बोध्यम् । उक्तञ्च कुसुमाञ्जलौ न्यायाचार्यैः-
.- . .
. - सापेक्षत्वादनादित्वाद्वैचियाधिश्ववृत्तितः । ...... १. प्रत्यात्मनियमाद्भुक्तेरस्ति हेतुरलौकिकः ॥ इति । ... ....... अस्यैवादृष्टस्य वैशेषिकदर्शने षष्ठाध्याये विशिष्टाः परीक्षा : कृता भगवता कणादेन । किञ्च-"चैत्रस्य शरीरादिकं तदीयविशेषगुणजन्यं कार्यत्वे सति तदीयभोगहेतुत्वात् तद्रीयप्रयत्नजन्यकुसुमेपर्यकादिवत् । यद्यत्कार्यत्वे सति तदीयभागहेतुकं (दृष्टम् ) तत्तत्तदीयविशेषगुणजन्यम्" इति प्रतिबन्धसिद्धिरित्यनुमानमप्यदृष्टसाधकं ज्ञेयम् ।.
...... . इंदञ्च-बुद्धिपूर्वा वाक्यकृतिवेदे (वै०६।१।१) इत्यार्षसूत्रमूलम् । सूत्रार्थस्तुवेद इति घटकत्वं सप्तम्यर्थः, तस्य कृतात्वयः । ऋग्यजुःसामाथाख्यवेदघटकं यद्वाक्यरूपं कृतिः कार्य रचनाविशेषः सा बुद्धिपूर्वा अर्थात् वेदघटक यद्वाक्यरूपं कार्य तबुद्धिपूर्वम्=स्वार्थविषयक