________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
ननु-अन्यदपि पूर्वजन्मानुभूतं कुतो न मर्यते बालेन इत्याह-"नच"-- इति । "उद्बोधकाभावात्" इति । नायं नियमो यद्देहाद्भिन्नश्चेदात्मा सर्व स्मरेद् इति । किन्तु अनुभवजनिताः संस्कारा उद्बुद्धाः सन्त एव स्मृतिहेतवो नानुबुद्धाः । प्रकृते च-इष्टसाधनताभिन्नपदार्थविषयकसंस्काराणां न किमप्युद्धोधकमिति नान्यत् सर्यते । यत्र तु उद्बोधकं कारणं समापतति तत्रान्यदपि मर्यंत चेन्नास्माकं काचिदपि क्षतिः, पुराणेतिहासादिषु बहुधा तादृशाख्यानोपलम्भनादिति भावः । अनायत्याअगतिकगतिन्यायेन । जीवनादृष्टम् धर्माधौं । कल्प्यते अनुमीयते । अन्यथाइष्टसाधनताया अनुभवाभावेन उद्बोधकाभावेन च स्मरणासम्भवः, तेन च प्रवृत्त्य. सम्भवेन बालः शुष्ककण्ठो म्रियेतेति भावः । सिद्धान्ती श्रात्मनो नित्यत्वं साधयति-- "इत्थञ्च"--इति । स्तन्यपानप्रवृत्त्यनुकूलेष्टसाधनत्वस्मरणे । 'भावस्य" इति । ' इदन्तु अनादिनोऽपि प्रागभावस्य नाशम्मत्वोक्तम् -"नाशासम्भवात्" इति । यो यो जन्यो भावः स सर्वोऽपि विनाशीति व्याप्तेः । प्रात्मनोऽनादित्वेन जन्यभावत्वरूपहेतोरभावान्नैव नाशो भवितुमर्हतीत्यर्थः । श्रुतिश्च-"अविनाशीवारेऽयमात्मानुच्छित्तिधर्मा' (बृहदा० अ० ६ । ब्रा०५ । कं० १४ ) इत्येवजातीयका भवत्यात्मनो नित्यत्वे प्रमाणम् । अयमत्र चार्वाकमतसक्षेपः
अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः । . चतुर्थ्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥ किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् । अहं स्थूलः कृशोस्मीति सामानाधिकरण्यत: ॥ देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः ।
मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी ॥ इति । चत्वार्युव भूतानि तत्त्वानि, देह एवात्मा, मिलितेभ्यो भूतेभ्यो मदशक्तिवच्चैतन्यमुपजायते विनष्टेषु तेषु स्वयमेव विनश्यति, नास्ति परलोकः, न पुण्यं पापं वा कर्म यत्फलं तत्र भुञ्जीत ।। प्रत्यक्षमेवैकं प्रमाणम् । अङ्गनालिङ्गनादिजन्यं । सुखमेव पुरुषार्थः, मृतिरेव मोक्षः । उक्तञ्च
* जन्यभावस्य घटादेन शादनादीत्युक्तम् । +देहातिरिक्तात्मनोरभावादिति भावः । + अङ्गनालिङ्गनाजन्यं सुखमेव पुमर्थता ।।
कएटकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः । देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥ इत्यायधिकमन्यत्र ।