SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ देहात्मवादखण्डनम् । १३५ श्रयस्य बाल्यशरीरस्य नष्टत्वात् । “यस्यानुभव: तस्यैव स्मृतिः" इति नियमादिति भावः । “शरीराणाम्" इति । उपचयः वृद्धिः । अपचयः हास:। “स्थाविर"इति । वार्धक्ये इत्यर्थः । अत्र स्थाविरपदम्बाल्यकौमारयोरप्युपलक्षकं तेन न न्यूनता। अथ-स्वप्रयोज्यसंस्कारवत्त्वसम्बन्धेन बाल्यशरीरानुभवजन्यसंस्कारा वृद्धशरीरे जायन्त इति न स्मरणानुपपत्तिदोष इति ब्रूषे ? तनन्तसंस्काराणां कल्पने गौरवमापद्येत, अर्थात् अवयवानां वृद्धिहासाभ्याम्प्रतिक्षणं शरीरम्परिणमति एवमुत्तरोत्तरसंस्कारोत्पत्तिकल्पने महद्गौरवं तव मते, मम तु देहाद्भिन्नं एक एवानुभवतजन्यसंस्कारयोः स्मृतेश्चाश्रय आत्मा इति महल्लाघवमित्यभिप्रायवान् "नच" इत्यारभ्य "गौरवात्" इत्यन्तो ग्रन्थः। (मुक्ता०) एवं शरीरस्य चैतन्ये बालकस्य स्तन्यपाने प्रवृत्ति स्यात्, इष्टसाधनताज्ञानस्य तद्धेतुत्वात्तदानीमिष्टसाधनतास्मारकाभावात् । मन्मते तु--जन्मान्तरानुभूतेष्टसाधनत्वस्य तदानीं स्मरणादेव प्रवृत्तिः । नच जन्मान्तरानुभूतमन्यदपि स्मर्यतामिति वाच्यम्, उद्बोधकाभावात् । अत्र त्वनायत्या जीवनादृष्टमेवोद्बोधकं कल्प्यते । इत्थञ्च-संसारस्यानादितया आत्मनोऽनादित्वसिद्धावनादिभावस्य नाशासम्भवान्नित्यत्वं सिद्धयतीति बोध्यम्। (प्रभा०) देहात्मवादे दोषान्तरमुत्थापयति-"एवम्" इति । इष्टसाधनताज्ञानस्य “इदम्ममेष्टसाधनम्" इत्याकारकज्ञानस्य । तद्धेतुत्वात् प्रवृत्तिहेतुत्वात् । तदानीम् जन्मकाले, स्तन्यपानप्रवृत्तिपूर्वकाले इत्यर्थः । “इष्टसाधनता" इति । "इष्टसाधनत्वानुभावकाभावात्" इति प्राक्तनानेकव्याख्याकर्तसम्मतः पाठः । अर्थस्तुइन्द्रियसन्निकर्षरूपकारणाभावात् प्रत्यक्षानुत्पत्त्या ज्ञानसामान्याभावादेव इष्टसाधनत्वविषयकानुमित्याद्यनुत्पत्तिसम्भवादिति ज्ञेयः । स्मारकाभावादिति पाठेऽपि-अनुभवाऽभावे, संस्काराभावात्स्मृत्यनुपपत्तेः स्मारकहेतोरनुपपत्तिरेव फलतीति मे भाति । अयम्भावः-यावद्यत्र विषये इष्टसाधनताज्ञानं न भवति तावत्तत्र न काचिदपि प्रवृत्तिरुदेति । इष्टसाधनताज्ञानञ्चाननुभूते पदार्थ नैव जायते, यदि देह एवात्मा स्यात्तदा पूर्व तेन कदाचिदपि स्तन्यपानं नानुभूतम् , तर्हि कथं तत्संस्कारा: ? कथन्तरां तादृशं ज्ञानम् ? कथन्तमां वा मातु: स्तन्यपाने बालः प्रवर्ततेति सर्वथा दुरुत्तरञ्चार्वाकस्येति । ननु-प्रवृत्त्यन्यथाऽनुपपत्तिस्तवापि समानेतिशङ्कायां स्वमते सिद्धान्ती प्रवृत्तिं समर्थयते-“मन्मते तु"-इति । “जन्मान्तरानुभूत" इति । देहातिरिक्तेन उक्रान्तिगत्यागतिभाजा अात्मना पूर्वस्मिञ्जन्मनि स्तन्यपानम्ममेष्टसाधनमिति बहुवारं स्तन्यपाननिष्ठमिष्टसाधनत्वमनुभूतम्, तेन तदानीम् स्तन्यपानप्रवृत्त्यव्यहितपूर्वकाले तत्सरणादेव जायते प्रवृत्तिरिति न क्षतिः।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy