________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
"प्रत्यक्षविषयत्वम् " - इति । मानसप्रत्यक्षविषयत्वमित्यर्थः । नच" तत्रात्मा मनश्चाप्रत्यते" (वै० ८।१।२) इति सूत्रविरोधः । परात्माभिप्रायेण तस्य व्याख्यातत्वात् । स्फुटमिदमात्मतत्त्वविवेके । “विप्रतिपन्नम्प्रति” -- इति । अहमिति प्रतीतेः शरीराद्यतिरिक्तविषयकत्वे विवादग्रस्तञ्चार्वाकादिकम्प्रतीत्यर्थः ।
१३४
" करणमिति ” – इति । हि यतः करणं कुठारादिसकर्तृकम्फलोत्पादने कर्तृसहकृतं दृष्टं लोक इति शेषः ।
चक्षुरादीनि इन्द्रियाणि रूपाद्युपलब्धौ सकर्तृकाणि करणत्वात् छिदादिक्रियासाधकतम कुठारादिवत् । यश्चैषां कर्त्ता = प्रेरक : ( सञ्चालकः ) यथा कुठारादेः तक्षा स एवात्मेत्यनुमानमात्मनि प्रमाणम् ॥ ४७ ॥
(का० ) शरीरस्य न चैतन्यम्मृतेषु व्यभिचारतः ।
तथात्वश्चेदिन्द्रियाणामुपघाते कथं स्मृतिः ॥ ४८ ॥
(मुला० ) ननु - शरीरस्यैव कर्तृत्वमस्त्वत श्राह - शरीरस्येति । ननु -चैतन्यं ज्ञानादिकमेव मुक्तात्मनां त्वमन्मत इव मृतशरीराणामपि तदभावे का क्षतिः प्राणाभावेन ज्ञानाभावस्य सिद्धेरिति चेन्न, शरीरस्य चैतन्ये वाल्ये विलोकितस्य स्थाविरे स्मरणानुपपत्तेः शरीराणामवयवो पचयाऽपचयैरुत्पादविनाशशालित्वात् । नच पूर्वशरीरोत्पन्नसंस्कारेण द्वितीयशरीरे संस्कार उत्पद्यत इति वाच्यम्, अनन्तसंस्कार कल्पने गौरवात् ।
(प्रभा० ) देहात्मवादी चार्वाकः शङ्कते - " ननु " - इति । "मृतेषु ” – इति । श्रध्यात्मवायुसम्बन्धरहितेषु शवभूतेषु शरीरेषु । व्यभिचारतः=चैतन्याभावदर्शनादित्यर्थः । यदि चैतन्यं शरीरस्य धर्मः स्यात्तर्हि मृतेष्वपि रूपादिवदुपलभ्येतेति भावः । तस्योत्तरमाह -- “ शरीरस्य " -- इति । यदि शरीरं चेतनं कर्त्तृ स्यात् तर्हि मृतेऽपि शरीरे चैतन्यमुपलभ्येत, परन्तु नोपलभ्यते श्रतो न शरीरञ्चचुरादीन्द्रियनियमनकर्तृ इति भावः ।
"
पुनः स एव देहात्मवादी चार्वाकः शङ्कते - " ननु चैतन्यम् " - इति । यथा - तव नैयायिकस्य मते मुक्तात्मनाम्प्राणाभावेन ज्ञानाभाव:, एवमेव ममापि सिद्धान्ते मृतशरीरे चैतन्याभावेऽपि तस्यात्मत्वे न किञ्चिद् दुष्यति । यथा ज्ञानेच्छाकृत्यादीनि त्वन्मते मुक्तात्मसु न भवन्ति, मन्मते मृतशरीरेषु इत्युभयत्रापि समा समापत्तिरिति नैक एव प्रतिक्षेप्य इति पूर्वपक्षिणोऽभिप्रायः । सिद्धान्ती समाधत्ते - “न” – इति । "शरीरस्य " - इति । यदि शरीरमेव चेतन श्रात्मा स्यात् तर्हि बाल्ये यत्कन्दुकक्रीडादिकमनुभूतं वार्धक्ये तस्य स्मृतिर्न भवेत् तदा तस्य = अनुभवा.