________________
श्रात्मत्वजातिसिद्धिः, श्रात्मनि प्रमाणञ्च ।
शक्यतात्वात् पटनिष्ठपटपदशक्यतावत् । एतादृशशक्यतावच्छेदकत्वञ्च प्रकृते श्रात्मत्वमेवेत्यात्मपदशक्यतावच्छेदकतयाप्यात्मत्वजातिसिद्धिर्बोध्या ।
१३३
-
ईश्वरे श्रात्मत्वजातौ मानाभाव इति वादिनम्प्रत्याह - "ईश्वरेऽपि सा " - इति । “आत्मा वारे द्रष्टव्यः” ( बृहदा० २ । ४ । ५ ) इत्यादौ ईश्वरेऽपि श्रात्मपद-व्यवहारादिति भावः ।
-
नन्वेवञ्जीववदीश्वरोऽपि दुःखादिमान् स्यात् ? अत आह— “अदृष्टादि - रूप" - इति । श्रदृष्टमेव सुखदु:खाद्युपभोगहेतुः । ईश्वरे च तन्नास्त्यतो जाति - सत्वेऽपि न सुखाद्युत्पत्तिरिति भावः । नहि सत्यपि प्रधाने कारणे सहकारिणमन्तरा कार्य दृष्टचरमिति तु परमार्थः ।
ननु - श्रात्मत्वं नित्यम्, यत्र नित्ये यत्स्वरूपयोग्यता तत्र कदाचित्तत्फलमपि भवति, यथा च श्ररण्यस्थोऽपि दण्डः कदाचित् घटस्य कारणं स्यादेव, अन्यथा स्वरूपयोग्यतास्वरूपस्यैव निर्धारणा न भवेत् । एवमीश्वरे सुखादियोग्यतायां कदाचिदसौ जीववत् सुखादिमान् स्यादेवेत्याशङ्कायामाह - " नित्यस्य " - इति । " श्रप्रयो'जकत्वात् " - इति । कारणता स्वरूपानाधायकत्वात् नायं नियमोऽव्यभिचारीत्यर्थः । जलपरमाणौ स्नेहयोग्यतायां विद्यमानायामपि स्नेहानुत्पत्तेः । जलपरमाणौ स्नेहयोग्यतासवेऽपि जन्यजल एव स्नेहो जायत इत्युपपादितमधस्तात् ।
――
"परे तु " - इति । स्पष्टम् । नन्वेवं द्रव्यविभाजकवाक्ये श्रात्मपदेन जीवस्यैव ग्रहणे ईश्वरपदस्य पृथङ् निवेशे दशमद्रव्यत्वापत्तिः स्यादित्यत श्राह - "नच "इति । श्रात्मपदं विहाय तत्स्थाने "ज्ञानवत्" इति पदं निवेशयिष्यामः ज्ञानवत्त्वञ्च f द्विविधञ्जीवेश्वरभेदादिति च व्याख्यास्याम इत्यर्थः । श्राहुरिति कथनेन नेदम्मम सम्मतम्मतमिति सूचितम् ।
+
“इन्द्रियाणाम्” – इति । "इन्द्रियाद्यधिष्ठाता " इति मूलस्य व्याख्यानम् । श्रादिपदगृहीतं दर्शयितुमाह – “ शरीरस्य ” – इति । चैतन्यं ज्ञानवत्त्वम् । एतेनात्मनि प्रमाणं दर्शितम् । 'इन्द्रियाणि शरीरच ज्ञानाधिष्ठितम् श्रचेतनत्वे ि जनकतासम्बन्धेन श्रवच्छेदकतासम्बन्धेन वा ज्ञानवत्त्वात् वास्यादिवदित्यनुमान - . मित्यर्थः । श्रचेतनचेतनाधिष्ठितं कार्यं करोतीति व्याप्तेः । "अहं सुखी " - इत्यादिना श्रहं दुःखी श्रहञ्जानामि इत्यादि बोध्यम् ।
* अर्थात् ईश्वरे आत्मत्वजातिसत्त्वेऽपि धर्माऽधर्मात्मकशरीर हेत्वन्तरविरहादेव न सुखाद्युत्पत्तिः ।
+ एवम् — समवायसम्बन्धेन ईश्वरस्याऽपि ज्ञानवत्वमिति न दोषलेशोऽपि ।
+ इदन्तु — इन्द्रियाणां जनकतासम्बन्धेन शरीरस्यावच्छेदकतासम्बन्धेन इति विविच्य
ज्ञेयम् ।