________________
१३२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
प्रति प्रथमत एव शरीरादिभिन्नस्तत्प्रतीतिगोचर इति प्रतिपादयितुं न शक्यत इत्यतः प्रमाणान्तरं दर्शयति-करणमिति । कुठारादीनां छिदादिकरणानां कर्तारमन्तरेण फलानुपधानं दृष्टम् । एवं चक्षुरादीनां ज्ञानकरणानाम्फलोपधानमपि कर्तारमन्तरेण नोपपद्यत इत्यतिरिक्तः कर्ता कल्प्यते ॥४७॥ _ (प्रभा०) "आत्मानं निरूपयति" इति । अवसरसङ्गत्या इति शेषः । परममूले-"आत्मा"-इति । इन्द्रियादीनामधिष्ठाता अवच्छेदकतासम्बन्धेन इन्द्रियादीनाञ्चैतन्यसम्पादक: ज्ञानवत्वसम्पादकः । शरीरेन्द्रियाद्यवच्छेदकम् , अात्मा अवच्छेद्य इत्यर्थः । श्रादिना शरीरपरिग्रहः । एवञ्च-इन्द्रियाद्यधिष्ठातृत्वम् , समवायेन ज्ञानाधिकरणत्वं वा श्रात्मनो लक्षणम्फलितम् । कालिकादिसम्बन्धेन कालादीनामपि ज्ञानाधिकरणत्वेऽतिव्याप्तिः स्यात् तद्वारणाय समवायेनेत्युक्तम् । ज्ञानमितीच्छादीनामप्युपलक्षणम् ।
तत्रात्मनि प्रमाणमाह-“करणम्" इति । तथाच पारमर्ष सूत्रम्"आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्" (वै० ३।१।१८) इति । आत्मेन्द्रियसन्निकर्षात्तावज्ज्ञानमुत्पद्यते तदात्मनि लिङ्गमित्यर्थः । इदञ्च लिङ्गम्-असिद्धादिहेत्वाभासेभ्योऽन्यत्-सद्धेतुरित्यर्थः । तथाहि-"ज्ञानं क्वचिदाश्रितं कार्यत्वाद्रूपवत्" इत्यनुमानमात्मनि प्रमाणमिति फलितम्।
नन्वात्मजाती किम्मानमित्याह-"आत्मत्वजातिस्तु"-इति । "सुखदुःखादि"-इत्यादिना ज्ञानेच्छादिग्रहः । तथाच गौतमीयं सूत्रम्
"इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गमिति" (न्या० १।१।१०) इति । .
समवायसम्बन्धावच्छिन्ना या सुखदुःखादिनिष्ठा कार्यता, तादृशकार्यतानिरूपिता या श्रात्मनिष्ठा समवायिकारणता सा किञ्जिद्धर्मावच्छिन्ना कारणतात्वात् तन्तुनिष्ठकारणतावत् तादृशकारणतावच्छेदकत्वञ्च प्रकृते आत्मत्वमेव । ज्ञानत्वावच्छिन्नम्प्रत्यात्मवच्छिन्नत्वस्य हेतुत्वमिति भावः ।
अथवा-जीवेश्वरनिष्ठा या प्रात्मपदशक्यता सा किञ्चिद्धर्मावच्छिन्ना ___ * यत्तु-कश्चित्सकलदर्शनप्रक्रियासङ्करकर:-आत्मेन्द्रियार्थसन्निकर्षात् आत्माधिष्ठितानां प्राणादीनामिन्द्रियाणां गन्धादिभिः प्रातिस्विकैरथैः सह संयुक्तसमवायादिलक्षणात् सम्बन्धविशेषात् यत्तत्तदर्थानुभवात्मकं ज्ञानमुत्पद्यते तदन्यत् स्वरूपभूतात् ज्ञानात् भिन्नमित्यर्थ इत्याह, तन्मन्दम् , वैशेषिकादिप्रक्रियायां चित्स्वरूपात्मवादाऽनभ्युपगमात् ज्ञानस्वरूपस्य ज्ञानगुणाश्रयत्वकथने उपचारबीजाभावात् , इच्छादीनां स्पष्टतयैवाऽऽत्मनो विशेषगुणताङ्गीकारात्, अरुन्धतीन्यायेनापि शास्त्रेष्वधिकारितारतम्यप्रयुक्तप्रक्रियाभेदाङ्गीकारे दोषाभावाच्च, तेनाऽपि प्रक्रियाभेदाऽभ्युपगमस्य स्वीकृतत्वादिति कृतमनवस्थितचित्तानां बहुक्षोदकरणात् ।