________________
श्रात्मप्ररूपणम् ।
यन्मूर्त तत्तस्य "अवाची" अवागस्यामञ्चति सूर्य इति व्युत्पत्तेः । यथा काश्या रामेश्वरक्षेत्रम् । एवं खण्डान्तराण्यप्यूहनीयानि । इममेवाभिप्रायमनुसृत्याह“सर्वेषामेव"-इति । तथाचर्षेः सूत्राणि
"आदित्यसंयोगाद्भूतपूर्वाच्च भविष्यतो भूताच्च प्राची"। "तथा दक्षिणा प्रतीच्युदीची च" ।
"एतेन दिगन्तरालानि व्याख्यातानि" ।.(वै० २।२।१४,१५,१६) इति ।
सर्वसारस्तु-सूर्योदयसन्निहिता दिक् प्राची । तब्यवहिता दिक् प्रतीची। प्राच्यभिमुखस्थितपुरुषवामदेशावच्छिन्ना दिक् उदीची। तादृशपुरुषदक्षिणदेशावच्छिन्ना दिक् अवाची । यतः पतति सा दिक् ऊर्ध्वा । यत्र पतति सा अधः । एवं विदिशोऽपि अन्या: * कल्पनीया दिक् । इदन्तु बोध्यम्-जन्यमानं क्रियामानं वा कालोपाधिः । मूर्त्तमात्रन्तु दिगुपाधिरिति ।
__ दिक्कालौ नेश्वरादतिरिच्यते । किन्तु ईश्वर एव तत्तदुपाधिविशिष्टः क्षणदिन- . प्राचीप्रतीच्यादिव्यवहारनिमित्तमिति दीधितिकृतां मतं तन्न युक्तम् प्रमाणाभावात् । जीव एव तथा निमित्तं स्यादिति | विनिगमनाविरहाच्च । ईश्वरस्य जगजन्मादिकं क्लृप्तञ्जीवानां तत्कल्पनीयमिति लाघवतर्कस्यैव विनिगमकत्वे न दोष इति चेत् ? तदा अदृष्टादिसाधारणकारणानामपीश्वरेऽन्तर्भावप्रसङ्ग इति कृतं विस्तरेण ।
इति दिग्ग्रन्थः।
(का०) आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् ॥४७॥
(मुक्का०) अात्मानं निरूपयति-प्रात्मेन्द्रियाद्यधिष्ठातेति । अात्मत्वजातिस्तु सुखदुःखादिसमवायिकारणतावच्छेदकतया सिद्धयति । ईश्वरेऽपि सा जातिरस्त्येव । अदृष्टादिरूपकारणाभावान्न सुखदुःखाद्युत्पत्तिः । नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भाव इति नियमस्याऽप्रयोजकत्वात् । परे त्वीश्वरे सा जातिर्नास्त्येव प्रमाणाभावात् । नच दशमद्रव्यत्वापत्तिः, ज्ञानवत्त्वेन विभजनादित्याहुः । इन्द्रियादीति । इन्द्रियाणां शरीरस्य च परम्परया चैतन्यसम्पादकः । यद्यप्यात्मनि "अहं जाने अहं सुखी" इत्यादिप्रत्यक्षविषयत्वमस्त्येव तथापि विप्रतिपन्नं
* व्यवहाराऽनुरोधादिति भावः। + एकपक्षपातिनी युक्तिविनिगमना।
* विस्तरस्तु-न्यायमञ्जूषादिभ्योऽवसेयः । अस्माभिर्ग्रन्थगौरवभयात् मूलार्थबुबोधयिषा. तत्परैर्न कृत इति भावः।
नामा