SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः , क्रियामात्रसम्बन्धप्रयोजकत्वान्न तथा, भवति च जडमपि द्रव्यमन्यद्रव्यवृत्तिधर्मस्यान्यत्र प्राप्तौ निमित्तम्, यथा जवापुष्पं स्फटिके लौहित्यस्य, परमत्र साक्षात्सम्बन्धः कश्चिन्न प्रमाणसम्प्रतिपन्नः, तादृशी धीस्तु सम्बन्धमन्तरा उत्पत्तुमेव नार्हति ततश्च यदेव द्रव्यं स्वसमवायिसंयुक्त संयोगाख्य सम्बन्धद्वारा स्यालकोटादारभ्य भूयसः संयुक्तसंयोगान् लवपुरे, ततोऽल्पीयसः संयुक्रसंयोगांश्च वजीराँबादे उपनयति, तदेवाचेतनम्पृथिव्यादिभ्यो विलक्षणं दिगाख्यं द्रव्यमिति ध्येयम् । १३० [प्रत्यक्षखण्डे अत्र “स्व” पदेन बहुतरसंयोगस्य अल्पतरसंयोगस्य वा ग्रहणम्, तेषां समवायि मूर्त्त द्रव्यम्, तेन सह संयुक्ता = संयोगसम्बन्धवती दिगेवेति उक्तसम्बन्ध - घटनप्रकारः । एवमस्याः सिद्धावनुमानान्तरमपि - " इदं दूरमिति प्रत्ययः, इदं समीपमिति प्रत्ययश्च पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यसम्बन्धप्रयुक्तः परत्वापरत्वहेतुकत्वात् कालिक - परत्वापरत्ववत्" इति सामान्यतोदृष्टम्बोध्यम् । इयमपि कार्यमात्रम्प्रति साधारणं निमित्तम् । " इह दिशि कृष्णः परस्यां दिशि रामः” इत्यादिप्रत्ययात् । (का० ) उपाधिभेद कापि प्राच्यादिव्यपदेशभाक् । (मुला०) नन्वेकैव दिग् यदि तदा प्राचीप्रतीच्यादिव्यवहारः कथमुपपद्यतामित्यत श्राह - उपाधिभेदादिति । यत्पुरुषस्य उदयगिरिः सन्निहिता या दिक् सा तस्य प्राची । एवमुदयगिरिव्यवहिता या दिक् सा प्रतीची । एवं यत्पुरुषस्य सुमेरुसन्निहिता या दिक् सोदीची । तद्यवहिता त्ववाची | "सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थित" इति नियमात् । 1 (प्रभा० ) आशङ्कते – “ननु” – इति । समाधत्ते – “उपाधिभेदात् ”इति । वस्तुतो दिश एकत्वेऽपि तत्तदुपाधिभेदेन प्राच्यादिसम्झाभेद इत्यर्थः । प्राच्यादिसञ्ज्ञासु निमित्तभूतानुपाधीनाह - " यत्पुरुषस्य " - - इति । पुरुषस्येति पदार्थमात्रो - पलक्षणम् । तथाच - * यदपेक्षयोदयगिरिसन्निहितं यन्मूर्त सा ततः " प्राची" प्रागस्यामञ्चति सूर्य इति व्युत्पत्तेः । यथा प्रयागात् काशी । यस्मादुदयाचलविप्रकृष्टं यन्मूर्त्त तत्तस्य " प्रतीची" प्रातिकूल्येनास्यामञ्चति सूर्य इति व्युत्पत्तेः । यथा गयायाः पाटलीपुत्राद्वा काशी । यस्मात्सुमेरुसन्निकृष्टं यन्मूर्त्त तत्तस्य "उदीची" उदगस्यामञ्चति सूर्य इति व्युत्पत्तेः । यथा रामेश्वर क्षेत्रात् काशी । यस्मात्सुमेरुविप्रकृष्टं * तदपेक्षयोदयगिरिसन्निहितत्वञ्च - तन्निष्ठोदय गिरिसंयुक्तसंयोगापेक्षया अल्पतरोदयगिरिमंयोगवत्त्वम् । इत्थञ्च - " मथुरायाः प्राच्यः प्रयागः" इत्यत्र मथुरानिष्ठोदय गिरिसंयुक्तसंयोगपर्याप्तसङ्ख्याव्याप्यसङ्ख्यापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूत्तवृत्तिः प्रयाग इत्यन्वयबोध इत्यादिर्दिनकर्यत्राऽनुसन्धेया ।
SR No.002363
Book TitleNyayasiddhant Muktavali
Original Sutra AuthorN/A
AuthorMaherchand Lakshmandas
PublisherMaherchand Lakshmandas
Publication Year
Total Pages486
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy