________________
दिग्ग्रन्थः ।
(प्रभा० ) “इदमस्मात् दूरम्, इदं नेदिष्ठम्" इत्याकारकबुद्धेरसाधारणं निमित्तकारणं दिक् इत्याशयवान् दिशं निरूपयति – “दूरान्तिकादि " - इति । किं दूरत्वम्, किमन्तिकत्वमित्याकाङ्क्षायामाह – “दैशिक म्परत्वमपरत्वम् " - इति । “दैशिकपरत्वापरत्वयोः” - इति । श्रस्यायमर्थः - समीपदेश स्थितघटादिमूर्त्तद्रव्यापेचया दूरदेशस्थितघटादिमूर्त्तद्रव्ये दैशिकम्परत्वम् । एवं दूरदेश स्थितघटा दिमूर्त्तद्रव्यापेक्षया समीपदेश स्थितघटादिमूर्त्तद्रव्ये दैशिकमपरत्वं वर्त्तते । तत्र - दैशिके परत्वापरत्वे श्रसमवायिकारणजन्ये जन्यगुणत्वात् घटनिष्टरूपवत् । यो यो जन्यगुणः स सर्वोऽपि श्रसमवायिकारणजन्यः यथा घटनिष्टं रूपं जन्यगुणत्वात् कपालगतरूपासमवायिकारणजन्यं तथा दूरत्वम्=परत्वम् अन्तिकत्वम् - अपरत्वं नाम गुणोऽपि जन्यगुणत्वात् असमवायिकारणजन्यः स्यात् । एवं यस्मिन्मूर्ते - घटादिपिण्डे परत्वापरत्वे उत्पद्येते तेन सह यस्य द्रव्यस्य संयोगः = श्रसमवायिकारणरूपः, तदेव द्रव्यं दिगिति बोध्यम् । तदसमवायिकारणं दिशावस्तुनो: संयोग एवेति भावः ।
काललत्तणवदत्रापि लक्षणान्तरं कल्प्यम् । तथाहि - दैशिकविशेषणतासम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपित तादात्म्य सम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नतया यत् निमित्तकारणं सा दिग् । तथाचार्ष सूत्रम् -
“इत इदमिति यतस्तद्दिश्यं लिङ्गम् " (वै० २ । २ । १० ) इति ।
1
इतः = संयुक्त संयोगाल्पीयस्त्वाधिकरणाद् द्रव्यात् इदम् = बहुतरसंयुक्तसंयोगाधिकरणं द्रव्यं परं नाम दूरम् इतश्च संयुक्तसंयोगभूयस्त्वाधिकरणाच्च द्रव्यात् इदं संयुक्रसंयोगापीयस्त्वाधिकरणं द्रव्यमपरं नाम अन्तिकमित्येषा प्रतीतिर्यतो यस्मात्परत्वापरत्वनिमित्तात् उक्तप्रतीतिविषयभूताद्भवति तदेव परत्वमपरत्वञ्च * दिश्यं लिङ्गम् = दिगनुमापकं लिङ्गं हेतुरित्यर्थः ।
अयमभिसन्धिः - ( यत्किमपि ) मूर्त्तद्रव्यमवधिं कृत्वा ( येषु केषुचित् ) मूर्त्तेष्वेव यत् " इदमस्मात्परमिदञ्चास्मादपरम्” इति धीरुत्पद्यते, यथा स्याल (शालि) - कोटेऽवस्थितस्य पुंसः वजीराँबादमपेच्य लवपुरं परम् = दूरमिति यावत् । लवपुरमपेच्य वजीराँबादोऽपरम् = अन्तिकमिति यावत् । एवमाकारायां बुद्धौ परत्वापरत्वे निमित्तम् । संयुक्तसंयोगभूयस्त्वाश्रयत्वम्परत्वम्, संयुक्तसंयोगाल्पीयस्त्वाश्रयत्वमपरत्वम् ।
ते च भूयांसोऽल्पीयांसो वा संयुक्तसंयोगाः लवपुरं वजीराँबादं वा न साक्षादाश्रयितुं समर्थाः तेषां तत्र तत्र पृथिवप्रिदेशे समवेतत्वात्, लवपुरे वजीराँबादे समवायाभावाच्च, अतोऽन्येन केनचित् तत्र ते संयोगा अवश्यमुपनेतव्याः पृथिव्यादिस्तु परिच्छिन्नत्वान्न तथासंयोगहेतु:, आकाशस्तु न तादृशसम्बन्धप्रयोजकः, Paras
१२६
* इदन्तु ध्येयम् — दैशिकपरत्वप्रकारक बुद्धिम्प्रति दैशिकपरत्वं कारणम्, दैशिकापरत्वप्रकारक बुद्धिमति दैशिकाऽपरत्वं कारणमिति ।