________________
१२८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे सापेक्षम्” इति व्याप्तेराकारः । यथा--लोहितः स्फटिक इति ज्ञानम् । अत्र स्वभावतः शुक्लः स्फटिको विशेष्यम् , लोहितरूपं विशेषणम् । परन्तु लोहितरूपस्य साक्षात्सम्बन्धो नैवास्ति स्फटिके । संयोगसमवायश्चेति द्वावेव सम्बन्धी साक्षात्सम्बन्धपदेनोच्यते । तत्र स्फटिके लौहित्यस्य न संयोगो नापि समवायः तस्य जवापुष्पादिद्रव्यसमवेतत्वात् । जवापुष्पस्य च स्फटिकेन सह संयोगः साक्षात्सम्बन्धो नतु लौहित्यस्य, परन्तु स्वसमवायिसंयोगरूपेण परम्परासम्बन्धेन लौहित्यं स्फटिके भासते । “लोहितः स्फटिकः' इत्याकारकं विशिष्टज्ञानं साक्षात्सम्बन्धाभावे सति विशिष्टज्ञानत्वात् विशेषणविशेष्योभयसम्बन्धघटकं यद् जवापुष्पादिद्रव्यं तत्सापेक्षमेव । इत्थमयज्येष्ठः पिण्डो बहुतरसूर्यपरिस्पन्दवान्” इति विशिष्टज्ञानमपि तत्त्वात् विशेषणविशेष्योभयसम्बन्धघटकसापेक्षम् । बहुतरसूर्यपरिस्पन्दो विशेषणम् , शरीरादिपिण्डस्तु. विशेष्यम्, परमुभयोः न साक्षात्सम्बन्धः, किन्तु स्वसमवायिसंयुक्तसंयोगरूपः परम्परासम्बन्ध एवोभयसम्बन्ध: । अत्र "स्व"पदेन सूर्यक्रियारूपविशेषणग्रहः, तस्य समवायी सूर्यः, तत्संयुक्तः कालः, तस्य कालस्य संयोग: पिण्डेन सह वर्तत एवेति रीत्या सूर्यक्रियापिण्डसम्बन्धघटक: पदार्थः काल इति सिद्धम् ।
साङ्ख्याचार्यास्तु-पञ्चविंशतितत्त्वप्रतिज्ञाभङ्गभिया कालमतिरिक्रम्पदार्थ म मन्वते । किन्तु एकत्वेऽपि कालस्य क्षणदिनादिभेदो यैरुपाधिभिः स्वीकृतः त एवोपाधयोऽतीतादिव्यवहारहेतवो नतु तादृशोपाधिविलक्षण: कश्चनातिरिकः कालः । यथाचाहुर्योगभाष्यकारा:- “स खल्वयं कालो वस्तुशून्यो बुद्धिनिर्माणः शब्दज्ञानानुपाती लौकिकानां व्युस्थितदर्शनानां वस्तुस्वरूप इवावभासते” इति है। . योगवार्तिककारस्तु-क्षणात्मकः कालः स्वीकर्तव्य एवेत्यभिप्रायवान् "क्षणस्तु वस्तुपतित" इत्याद्युत्तरभाष्यानुरोधात् अन्यथा क्रमिकपरिणामानुपपत्तिः । एवञ्च क्षणाद्या: सर्वेऽपि कालाः सर्ववस्तुपरिणामहेतव इत्याह इति संक्षेपः ।
(का०) दूरान्तिकादिधीहेतुरेका नित्या दिगुच्यते ॥४॥
(मुक्ता०) दिशं निरूपयति--दूरान्तिकेति । दूरत्वमन्तिकत्वञ्च दैशिकम्परत्वमपरत्वम्बोध्यम् । तद्बुद्धरसाधारणम्बीजं दिगेव । दैशिकपरत्वापरत्वयोरसमवायिकारणसंयोगाश्रयतया लाघवादेका दिक् सिध्यतीति भावः ॥ ४६॥
* इस्थञ्च-"जातिदेशकालसमयानवच्छिन्ना: सार्वभौमा महाव्रतम्" (यो० सा० पा० सू०.३१) इति, “देशकालाकारनिमित्तापबन्धान्न खलु समानकालमात्मनामभिव्यक्तिरिति', इति चैवमादिषु कृतः कालशब्दप्रयोगः स्वतन्त्रकालपदार्थवादिमतसिद्धकालोपाधिनिबन्धन एवेत्यभिमानः।