________________
कालसाधकमनुमानम् ।
व्यवहारो नेति सिद्धान्तानुयायिनः । तादृशव्यवहारेष्टौ तु श्रगत्या पदार्थध्वंस एव क्षणात्मककालोपाधिरवसेयः ।
अस्तु क्षणव्यवहारसिद्धिः दिनादिव्यवहारः कथं सेत्स्यति ? तत्राह - “दिनादि " - इति । तत्तत्क्षणकूटैः- तत्तत्क्षणसमुदायैरित्यर्थः । श्रादिना मासादिव्यवहारग्रहः । तथाचाह किरणावलीकारः
--
१२७
त्रिंशत्कालो मुहूर्त्तः स्यात् त्रिंशद्रात्र्यहनी च ते । अहोरात्राः पञ्चदश पक्षो मासस्तु तावुभौ ॥ ऋतुर्मासद्वयं प्रोक्तमयनन्तु ऋतुत्रयम् ।
द्वितयं वर्षो मानुषोऽयमुदाहृतः ॥ एष दैवस्त्वहोरात्रस्तैः पतादि च पूर्ववत् । दैववर्षसहस्राणि द्वादशैव चतुर्युगम् ॥
चतुर्युगसहस्रन्तु ब्रह्मणो दिनमुच्यते । रात्रिश्चैतावती तस्य ताभ्यां पक्षादिकल्पना ॥ इति ॥
एवच्च सकलकालग्रन्थविलोडनेन कालस्य लक्षणत्रयं सुनिष्यन्नम् तथाहि-विभुत्वे सति दिगसमवेत परत्वापरत्वासमवायिकारणं कालः । परत्वापरत्वानाश्रयत्वे सति विजातीयपरत्वापरत्वासमवायिकारणसंयोगाश्रयः कालः । * श्रतीतादिव्यवहारहेतुर्वा कालः । वर्त्तमानध्वंसप्रतियोगित्वमतीतत्वम् । वर्त्तमानप्रागभावप्रतियोगित्वम्भविष्यत्त्वम् । ध्वंसप्रागभावानधिकरणकालवृत्तित्वं वर्त्तमानत्वमिति विवेकः । एतेषां लक्षणानां समन्वयप्रकारो ग्रन्थगौरवभयान्न प्रतानितः । स्वयमूह्यः ।
कालसाधकानुमानप्रकारस्तु — ज्येष्ठकनिष्ठशरीरनिष्ठे परत्वापरत्वे श्रसमवायिकारणजन्ये जन्यगुणत्वात् रूपवत् ।
अन्ये तु — बहुतरसूर्यपरिस्पन्दविशिष्टपिण्डज्ञानात् कालिकपरत्वमुत्पद्यते । श्रल्पतरसूर्यपरिस्पन्दविशिष्टपिण्डज्ञानात्कालिकापरत्वोत्पत्तिः । ततश्चैवं कालानुमानम्“तद्विशिष्टज्ञानं विशेषणविशेष्यो भयसम्बन्धघटकसापेक्षं साक्षात्सम्बन्धाभावे सति विशिष्टज्ञानत्वात् लोहितः स्फटिक इति विशिष्टज्ञानवत् । अत्र - " श्रयं शरीरादिरूपपिण्डो बहुतरसूर्यपरिस्पन्दवान्” इत्याकारककालिकपरत्वनिमित्तविशिष्टज्ञानम् " तद्विशिष्टज्ञानम्"" इति पक्षपदार्थः । क्रियारूपं विशेषणं पिण्डरूपं विशेष्यं तदुभयसम्बन्धघटको यः कश्चन पदार्थः, तत्सापेक्षमिति साध्यपदानामर्थः । शिष्टान्यतराणि सुगमानि । “यत् साक्षात्सम्बन्धाभावविशिष्टं विशिष्टज्ञानं तत् विशेषणविशेष्योभयसम्बन्धघटक
* नच तादृशव्यवहारः सूर्यपरिस्पन्दादिरूपोपाधिमादायाऽपि सम्भवतीति वाच्यम्, अनुगतव्यवहारस्याऽनुगतविषयं विनाऽसम्भवेनाऽतिरिक्तकालस्वीकारात् " इति भास्करोदया ।
+ अथवा – “इदानीं घट" इति विशिष्टज्ञानम् ।