________________
१२६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे विनाशयतीति । उत्तरदेशसंयोगप्रागभावः तृतीयक्षणपर्यन्तस्थायी नत्वधिककालपर्यन्तस्थायीति।
चतुर्थक्षणोपाधिमाह-"उत्तरसंयोगावच्छिन्नम्” इति । उत्तरदेशवतिसंयोगविशिष्टा क्रियैव चतुर्थक्षणोपाधिः ।
श्रयमाशयः-प्रथमक्षणे घटे क्रिया, द्वितीयक्षणे घटस्य पूर्वदेशात् क्रियाजन्यो विभागः, तृतीयक्षणे क्रियाजन्यविभागात् घटस्य पूर्वदेशवृत्तिसंयोगनाशः, ततश्चतुर्थे क्षणे क्रियया घटस्योत्तरदेशसंयोगः, एवमुत्तरदेशसंयोग एव स्वहेतुक्रियाया नाशकः, अर्थात् पञ्चमक्षणे सा क्रिया न तिष्ठति चतुर्थक्षणे तु विद्यमाना सैव उत्तरदेशसंयोगात्मकविशेषणविशिष्टा चतुर्थक्षणोपाधिः । उत्तरसंयोगावच्छिन्नक्रियोपलक्षितः कालश्चतुर्थः क्षण इत्यर्थः।
उदयनाचार्यास्तु-उत्पन्नं द्रव्यं यावदगुणमुत्पद्यते, अन्त्यतन्तुसंयोगे वा यावन्न पटः, उत्पन्ने वा कर्मणि यावन विभागः 8 तावत्कालः + क्षणः । सामग्री वा कार्यरहिता क्षणः।
श्रीधराचार्यास्तु-निमेषस्य चतुर्थो भागः क्षणः, क्षणद्वयेन लव:, अक्षिपक्ष्मकर्मोपलक्षितः कालो निमेष इत्याहुः ।
पञ्चमादिक्षणे क्षणादिव्यवहाराभावमाशङ्कते-"नच"-इति । उत्तरसंयोग. सत्त्वे क्रियाया नष्टत्वात् इति शङ्काग्रन्थार्थः । ... समाधत्ते-“कर्मान्तरस्यापि"-इति । चतुर्थक्षणे क्रियायां नष्टायामपि तस्मिन्नेव घटादिमूर्तद्रव्ये क्रियान्तरसत्त्वात्पूर्ववत् क्षणादिव्यवहारसिद्धिरिति नानुपपत्तिश्चतुर्थादिक्षणानामिति समाधानग्रन्थार्थः ।
ननूकक्षणलक्षणं महाप्रलयात्मकक्षणं अव्याप्तं तत्र तद्घटककर्मणोऽभावादिति शङ्कायामाह-"महाप्रलय"-इति । सर्वकार्यध्वंसात्मके महाप्रलये + क्षणादि.
* "तावत्काल" इति तु स्पष्टम् । उक्तञ्च किरणावल्याम्
क्षणद्वयं लवः प्रोक्तो निमेषस्तु लवद्वयम् ।
पञ्चदश निमेषाश्च काष्ठास्त्रिंशत्तु ताः कलाः ॥ इति । * शास्त्रे तु महाप्रलयक्रम एवं दर्शितः । तथाहि
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते । तेजस्याप: प्रलीयन्ते तेजो वायौ प्रलीयते ॥ वायुश्च लीयते व्योम्नि तच्चाऽव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन् ! निष्कले सम्प्रलीयते ॥ इति ।