________________
काले क्षणादिव्यवहारोपाधिः।
१२५
स उपाधिरित्याकाङ्क्षायां मूर्तद्रव्यक्रियारूपमुपाधि दर्शयितुमाह-“उपाधिस्तु"इति । तत्र प्रथममुपाधिमाह-"स्वजन्यविभाग"-इति । स्वजन्यविभागप्रागभावावच्छिन्नं कर्म प्रथमक्षणोपाधिरित्यर्थः । अत्र "स्व"पदेन मूर्त्तव्यनिष्ठाया क्रियाया ग्रहणम् , क्रिया कर्मेत्यनान्तरम् ।
पूर्व क्रिया, क्रियातो विभागः, विभागात्पूर्वदेशसंयोगनाशः, तत उत्तरदेशसंयोगश्चेति नियमः। एतन्नियमपूर्वकं मूर्तद्रव्यनिष्ठया यया क्रियया द्वितीयस्मिन्क्षणे विभाग उत्पादनीयः तस्य विभागस्य प्रथमक्षणे प्रागभावः, एवमसौ क्रिया स्वजन्यविभागप्रागभावविशिष्टा सती "स्वजन्यविभागप्रागभावावच्छिन्ना" इत्युच्यते । अयमेव च प्रथमक्षणस्योपाधिः । अर्थात् क्रियया जनिष्यमाणविभागस्य प्रागभावविशिष्टा या क्रिया तवारैव काले "अयम्प्रथम: क्षण" इति व्यवहारो जायते ।
क्रियाविभागप्रागभावौ द्वावेव यस्मिन्काले वर्तते, स कालः "प्रथमक्षण" उच्यते । क्रिया च तस्योपाधिरिति विभागग्रागभावविशिष्टक्रियोपलक्षित: काल आद्यः क्षण इति सारः ।
द्वितीयक्षणोपाधिमाह -“पूर्वसंयोगावच्छिन्ना"- इति । मूर्तद्रव्यस्य यः पूर्वदेशेन संयोगः तादृशसंयोगावच्छिन्नो यः क्रियाजन्यो विभाग: अर्थात्संयोगपूर्वको विभागः सोऽयं द्वितीयक्षणोपाधिरित्यर्थः । पूर्वसंयोगावच्छिन्नविभागोपलक्षितः कालो द्वितीयः क्षण इत्यर्थः ।
परिष्कृतार्थस्तु-स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टस्वजन्यविभागः। 'स्वं" क्रिया तज्जन्यो विभागः अर्थाद् घटादिमूर्त्तद्रव्यस्य विभक्तप्रत्ययहेतुर्गुणः, तेन विभागन नाश्यो य: पूर्वसंयोगः, तद्विशिष्टो यः स्वजन्यः क्रियाजन्यो विभाग इति । एवं विवक्षया यत्किञ्चित्पूर्वसंयोगविशिष्टस्य स्वजन्यविभागस्य व्यादिक्षणवृत्तित्वेऽपि, किंवा यत्किञ्चिद्विभागस्य स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टस्य तथात्वेऽपि न क्षतिः अर्थात् द्वितीयक्षणोपपादकोपाधिलक्षणस्य त्र्यादिक्षणस्वरूपोपपादने नातिव्याप्तिः । . तृतीयक्षणोपाधिमाह-“पूर्वसंयोगनाशावच्छिन्ना"-इति । पूर्वदेशवर्ती यः मूर्तद्रव्यस्य संयोग: तादृशसंयोगनाश(ध्वंस)सहितो य उत्तरदेशसंयोगप्रागभावः स एव तृतीय क्षणोपाधिः । अर्थात् प्रथमक्षणे जायमानया क्रियया द्वितीयक्षणे उत्पद्यमानेन विभागेन तृतीयक्षणे पूर्वदेशवृत्तिसंयोगस्य नाशो भवति, तस्मिन्नेव तृतीयक्षणे चतुर्थक्षणजनिष्यमाणोत्तरदेशवर्तिसंयोगस्य प्रागभावोऽपि विद्यते, एवं रीत्या पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावस्तृतीयक्षणकल्पकत्वात् तृतीयक्षणोपाधिरित्यर्थः। पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावोपलक्षितः कालस्तृतीय: क्षण इत्यर्थः ।
इदन्तु बोध्यम्-प्रागभावप्रतियोग्युत्पादक: कारणकलाप एव प्रागभावस्य नाशकः, तेन चतुर्थक्षणोत्पद्यमानोत्तरदेशसंयोग एव स्वोत्पत्तिक्षणे प्रागभावं