________________
१२४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
(का०) परत्वापरत्वधीहेतुः क्षणादिः स्यादुपाधितः।
(मुक्ता) प्रमाणान्तरं दर्शयति-परत्वापरत्वेति । परत्वापरत्वबुद्धेरसाधारणं निमित्तं काल एव । परत्वापरत्वयोरसमवायिकारणसंयोगाश्रयो लाघवादतिरिक्तः काल एव कल्प्यते इति भावः। नन्वेकस्य कालस्य सिद्धौ क्षणदिनमासवर्षादिसमयभेदो न स्यादत आह-क्षणादिरिति । कालस्त्वेकोऽपि उपाधिभेदात्क्षणादिव्यवहारविषयः। उपाधिस्तु खजन्यविभागप्रागभावावच्छिन्नं कर्म । पूर्वसंयोगावच्छिन्नविभागो वा। पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा । उत्तरसंयोगावच्छिन्नं कर्म वा । नचोत्तरसंयोगानन्तरं क्षणव्यवहारो न स्यादिति वाच्यम्, कर्मान्तरस्यापि सत्त्वादिति । महाप्रलये क्षणादिव्यवहारो यद्यस्ति तदानायत्या ध्वंसेनोपपादनीय इति । दिनादिव्यवहारस्तु तत्तत्क्षणकूटैरेवेति ।
(प्रभा०) परममूले–“परत्वापरत्वधीहेतुः" इति । परत्वापरत्वबुद्धेरसाधारणनिमित्तं काल एव । “परत्वापरत्वबुद्धेः" इति । अयमस्माज्ज्येष्ठ इत्येकसिन्ध्रातरि परत्वप्रत्ययः, अयमस्मात्कनिष्ठ इत्यपरस्मिन्भ्रातरि अपरत्वप्रत्ययः । सच परत्वापरत्वगुणधीनिबन्धनः । तथाचानुमानम् – “परत्वापरत्वे च असमवायिकारणजन्ये भावकार्यत्वात् घटादिवत्" इत्यनुमानेन ते सासमवायिकारणके। असमवायिकारणञ्च तयोः कालपिण्डसंयोग एवेति परत्वापरत्वयोरंसमवायिकारणसंयोगाश्रयतयापि कालसिद्धिरिति भावः *।
नन्वेवम्-तादृशसंयोगम्प्रति समवायिकारणमपि काल इति कथं सर्वत्र कालस्य निमित्तकारणतया प्रथमलक्षणप्रणयनम् ? उच्यते-यद्यपि कार्यमानम्प्रति निमित्तकारणं काल इत्युक्तम्परमसौ कालिकसम्बन्धेन । स्ववृत्तिद्वित्वसंयोगादिगुणान् प्रति तु द्रव्यत्वादसी समवायिकारणं समवायसम्बन्धेनेति न पूर्वापरविरोधः शङ्कनीय: । "कालोऽमुं दिवमजनयत् , काल इमाः पृथिवीरुत"- (अथर्व कां०१६। सू०५३। मं०५) इत्याद्यागमोऽपि काले प्रमाणम् ।
आशङ्कते–“ननु" इति । समयभेदः समयव्यवहारभेदः। सच "अद्य गन्ता, श्व श्रागन्ता, परश्वः पठिता" इत्यादिरूपः । समाधत्ते-"क्षणादिः" इति । "उपाधित"-इति । उपाधिभेदात् एकस्मिन्नपि क्षणदिनादिव्यवहार इत्यर्थः । कः
___* न्यायलीलावतीकारस्तु-अत्र विषये बहु शास्त्रार्थयन् “तपनस्पन्दभेदपिण्डसंसर्गोपनायकः पदार्थ इतरेभ्यो भिद्यते उपाधिभेदसंसर्गोपनायकत्वात् , न यदेवं न तदेवं यथा पृथिवी" इत्यनुमानमाचष्टे ।