________________
कालस्य लक्षणम्, तत्र प्रमाणञ्च ।
( प्रभा० ) " कालम् " - इति । अवसरप्राप्तं कालं लक्षयतीत्यर्थः 1 “जन्यानाम् " - इति । जन्यानां कार्याणाम् उत्पत्तिमताञ्जनकः = निमित्तकारणं यः स “काल” इत्यर्थः । अत्रच - कार्यमात्रम्प्रति काल: समवायिकारणम्भवितुं नार्हति, द्रव्यत्वाच्च श्रसमवायिकारणमपि नैवेति हेतोः जनकपदस्य निमित्तकारणमर्थो बोध्यः ।
१२३
तथाच कार्यत्वावच्छिन्नम्प्रति कालिकसम्बन्धावच्छेदेन निमित्तकारणत्वं कालत्वम् । अर्थात् कालिकसम्बन्धावच्छिन्न कार्यत्वावच्छिन्ना या कार्यता, तन्निरूपिता या तादात्म्य सम्बन्धावच्छिन्नाधिकरणता, तादृशाधिकरणतया निमित्तकारणत्वं कालत्वमिति काललक्षणम् ।
,
"कालिकसम्बन्धावच्छिन्ने' ति निवेशेन दिशि अधिकरणतयेति पदेन च अदृष्टादौ नातिव्याप्तिः । तथाचार्षं सूत्रम् -
1
"नित्येष्वभावादनित्येषु भावात्कारणे कालाख्येति' (वै० २।२।१ ) इति । नित्येष्वाकाशादिषु अभावात् = "युगपज्जातः चिरञ्जातः क्षिप्रञ्जातः इदानीञ्जातः दिवा जात: नक्तञ्जातः” इत्यादिप्रत्ययस्याभावात् श्रनित्येषु = घटपटादिकार्येषु चोक्तप्रत्ययस्य भावात् श्रन्वयव्यतिरेकाभ्यां कार्यमात्रम्प्रति यत्कारणं स काल इत्यर्थः ।
" तत्र " - इति । काले इत्यर्थः । प्रमाणम् = अनुमानम् । तच्च – यथाऽस्ति तथा घटयितुं सन्दर्भ रचयति - " तथाहि " - इति । " इदानीं घटोऽस्ति" इत्यादि - प्रतीति:=ज्ञानम् । “सूर्यपरिस्पन्द " - इति । सूर्यपरिस्पन्दः = सूर्यक्रिया गतिरूपा | विषयीकरोति=श्रवगाहते । लोके तथा व्यवहारदर्शनादिति भावः । तथाच - - सूर्यक्रियया सह घटादेः=जन्यपदार्थमात्रस्येत्यर्थः । " संयोगादिः " - इत्यादिना समवायग्रहः । " न सम्भवति " - इति । न प्रमाणसिद्धो भवतीत्यर्थः । सम्बन्धं विना च उक्तप्रतीत्या न भाव्यम् तेन भवितव्यं केनचित्सम्बन्धेन । सच सम्बन्धः " स्वाश्रयतपनसंयोगि संयोगस्वरूप" एव । एवमेवंविधसम्बन्धघटकः यः कश्चन पदार्थः, स एव काल इति कल्प्यते = अनुमीयते ।
अत्र "स्व" पदेन सूर्यक्रियाया: ग्रहणम्, तस्या श्राश्रयः सूर्यः, तस्य संयोगी कालः, तत्संयोगः (कालिकसम्बन्धः ) घटादौ वर्त्तते, उक्तसम्बन्धघटकः काल एव पदार्थ इत्यर्थ: । अयमेव सम्बन्धः “स्वसमवायिसंयुक्तसंयोग" इत्युच्यते । "स्व" पदेन पूर्ववत् सूर्यक्रियाया ग्रहणम्, तस्य समवायी सूर्यः, तत्संयुक्तः कालः तेन सह घटादीनाम् = जन्यानां संयोगः सम्बन्धो भवति, “द्रव्ययोः संयोग" इति नियमात् । “इदानीं घटरूपमुत्पन्नम्” इत्यादौ रूपादिगुणेन कालसम्बन्धस्तु - " स्वसमवायिसंयुक्तसंयोगिसमवेतरूपो" घटनीयः ।
" जगतामाश्रयो मत " - इति । " कालः सर्ववान्" इति प्रतीत्या सर्वाधि करणत्वेन कालाख्यद्रव्यसिद्धिरिति भावः ॥ ४५ ॥