________________
१२२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
(का०) इन्द्रियन्तु भवेच्छोत्रमेकः सन्नप्युपाधितः ।
(मुक्ता०) तत्र शरीरस्य विषयस्य चाभावादिन्द्रियं दर्शयतिइन्द्रियमिति । नन्वाकाशं लाघवादेकं सिद्धं श्रोत्रन्तु पुरुषभेदेन भिन्नं कथमाकाशं स्यादिति चेत्तत्राह-एकः सन्नपीत्यादि । आकाश एकः सन्नपि उपाधेः कर्णशष्कुल्यादेर्भेदाद्भिन्नं श्रोत्रात्मकम्भवतीत्यर्थः। __(प्रभा०) आकाशस्येन्द्रियन्तु श्रोत्रमेव । श्रूयतेऽनेनेति "श्रु" धातो: करणे ष्ट्रन्प्रत्ययः । ननु-आकाशस्यैकत्वे कथं श्रोत्रेन्द्रियस्य नानात्वम् ? तत्राह"उपाधे"रिति । शष्कुलीव कर्ण इति कर्णशष्कुली । "शष्कुली पूरिका प्रोक्ता" इति निघण्टुः । कर्णशष्कुलीविवरावच्छिन्नमाकाशं श्रोत्रमित्यर्थः ।
इदन्तु बोध्यम्-आकाशमेकं विभु नित्यञ्च । “घटाकाशो मठाकाश' इति नानाव्यपदेशस्तु घटमठाद्युपाधिभेदवशाद्धोध्य: । विभुत्वञ्च शब्दस्य सर्वत्रोपलम्भयोग्यतावत्त्वात् । मूर्तदव्यवृत्तिसंयोगवत्त्वाच्च । अतएव च नित्यत्वमपि । “अात्मन अाकाशः सम्भूत" (तै०उ० २ । १।१ ) इत्याद्याकाशोत्पत्तिवादिनी श्रुतिस्तु ब्रह्माण्डरूपोपाधिवशादाकाशाभिव्यक्तिपरा, अन्यथा परमाणुनामप्यनित्यताऽपयेत। वस्तुतस्तुअात्माकाशयोर्जन्यजनकभावोऽनुमानविरुद्धः । तेन श्रौतं तथाकथनमर्थवादरूपमेव । आकाशस्य शरीरन्तु न वर्तते। परन्जवादृष्टाऽलौकिकमाहात्म्यात् इन्द्रियमस्ति, तच्च श्रोत्रम् । “शब्दधीजनकमिन्द्रियं श्रोत्रम्” इति तल्लक्षणम् । श्रोत्रेन्द्रियस्याकाशत्वे किम्मानमिति चेत् ? “यदिन्द्रियं रूपादिषु मध्ये यद्गुणग्राहकं तदिन्द्रियं तद्गुणयुक्तम्" इति व्याप्तेः श्रोत्रस्य शब्दगुणत्वेन शब्दगुणकत्वम् समवायसम्बन्धेन शब्दसमवायिकारणत्वञ्चाकाशत्वमित्याकाशलक्षणलच्यत्वादाकाशत्वसिद्धिरिति संक्षेपः । “शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वाद् अयावद्दव्यभावित्वात्' इत्यादि प्रशस्तमपि मूलं ज्ञेयम् ।
इत्याकाशग्रन्थः।
-
-
(का०) जन्यानाञ्जनकः कालो जगतामाश्रयो मतः ॥४५॥
(मुक्का०) कालं निरूपयति--जन्यानामिति । तत्र प्रमाण दर्शयितु माह-जगतामिति । तथाहि-इदानी घट इत्यादिप्रतीतिः सूर्यपरि स्पन्दादिकं यदा विषयीकरोति तदा सूर्यपरिस्पन्दादिना घटादेः सम्बन्धे वाच्यः, स च सम्बन्धः संयोगादिर्न सम्भवतीति काल एव तत्सम्बन्ध घटकः कल्प्यते । इत्थश्च तस्याश्रयत्वमपि सम्यक् ॥४५॥ .
+ "सर्वधातुभ्य: ष्टन्” ( ३०४ । १५६) इत्युणादिसूत्रेणेत्यर्थः । * परमिदं नैयायिकेभ्य एव रोचते नत्वौपनिषदेभ्यः ।