________________
आकाश सिद्धिः ।
यत्र प्राप्तिसम्भावना तत्र निषेधे सति तद्भिन्नेऽप्राप्तिपूर्वकं शेषविषयेऽनुमितिकरणं परिशेषानुमानम् ।
-
तथाच — “शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्कद्रव्याश्रितः श्रष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात्" इति प्रयोगः ।
अस्ति शब्दो गुण:, तेन च क्वचिद्रव्य एव स्थेयम् । द्रव्यं विना गुण स्थितेरयोगात् । परन्तु रूपादिवन्नायं शब्दो येन पृथिव्याद्याश्रितः स्यात्, प्रदर्शितेन प्रकारेण पृथिव्याद्याश्रितत्वं तस्य प्रतिषिद्धमेव । गुणकर्मादिकं शब्दस्याश्रयो भवेदिति तु सर्वथाऽसम्भवि, नहि गुणो वा कर्म वा गुणकर्मणोराश्रयः श्रपितु तयोराश्रयो द्रव्यमेव । एवञ्च पृथिव्याद्यष्टद्रव्यशिष्टं यद्द्द्रव्यं तदेव समवायेन शब्दाश्रयः । स एव आकाशाख्यं नवमं द्रव्यमिति भावः ।
१२१
उक्तञ्च—“परन्त्र समवायात्प्रत्यत्तत्वाच्च नात्मगुणो न मनोगुणः । परिशेषाल्लिङ्गामाकशस्या” (वै० २ । १ । २६ । २७ ) इति । परत्रेति - श्रात्मभिन्ने समवायात् नात्मगुणः, यदि शब्दो ज्ञानादिवदात्मनि समवेतः स्यात् तर्हि बधिरोऽपि शृणुयात् । प्रत्यक्षत्वाच्च न मनोगुणः, जातिमत्त्वे सति बाह्यकेन्द्रियजन्यप्रत्यक्षविषयत्वादित्यर्थः । एतेनैव हेतुना दिक्कालयोरपि न गुण इति सूत्रसूचितमेव । परिशेषादाकाशस्यैव लिङ्गमनुमापकमित्यर्थः ।
कानुमाने बार्ध स्वरूपासिद्धिञ्च शङ्कते "नच " - इति । "वायौ " - इति । तथाच स्पर्शवद्वायुगुणत्वस्य तत्र सत्त्वात् तदभावसाधने बाधितो हेतुः ।
समाधत्ते – “यावव्यभावित्वेन " - इति । यावद्द्द्रव्यस्थितिकाल - स्थितिकत्त्वम्, द्रव्यध्वंसवत्वं, स्वाश्रयनाशप्रातयोगित्वं वा यावद्द्रव्यभावित्वम् । यत्तन्न तदयावद्द्द्रव्यभावित्वम् । इदञ्च पूर्वमेव स्पष्टीकृतम् ।
ननु - " आकाशे * डयते वलाका" इति प्रतीत्या श्राकाशं चाचुषमेव मन्यतां ? अन्यथा अधिकरणाप्रत्यक्षे उक्तप्रत्ययो न स्यात् श्राधेयता प्रत्यक्षम्प्रति अधिकरणताप्रत्यक्षस्य प्रयोजकत्वादिति चेद् ? न, असौ प्रत्ययः श्रालोकमेवावगाहते नत्वाकाशं चाचुषप्रत्यक्षम्प्रति महत्त्वोद्भूतरूपवत्वस्य प्रयोजकत्वात् श्राकाशे रूपाभावाshareer विस्तरः |
1
अत्रेदम्बोध्यम्-- डीङ् विहायसा गतौ । अयं धातुभौवादिको दैवादिकश्च आधे “डयते” इति, द्वितीये “डीयते " इति प्रयोगः । बोपदेवोऽपि - "डयते पक्षी" इत्युदाजहार । अस्यापि निष्ठायाम् “डीनः" इति कातन्त्राः । धातुपारायणिकास्तु — सेटं मत्वा "डयित" इत्याहुः । गोयीचन्द्रोऽपि – “डयितः, डयितवान् ” इत्युदाजहार । स्वमते - ( बोपदेवमते) तु "डीत" इत्येव साधुरिति कृतं तर्फे बहु शब्दमीमांसया ।