________________
१२०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
[प्रत्यक्षखण्डे
अग्निसंयोगासमवायिकारणकत्वाभावविशिष्टाकारणगुणपूर्वकत्वं धर्मः, ततश्च सर्वस्यैव हेतोय॑भिचारः, तस्मात् "प्रत्यक्ष" इति पदं हेतौ निवेशितम् । जलपरमाणुरूपे प्रत्यक्षविषयत्वाभावान व्यभिचार इत्यर्थः ।।
अयमत्र सार:--पृथिवीजलतेजोवायवः एते चत्वारः स्पर्शवन्तः, स्पर्शवतां यो विशेषगुणः, यथा-पृथिव्या गन्धः, जलस्य शीतस्पर्शः, तेजस उष्णस्पर्शः, वायोरनुष्णाशीतस्पर्शः । एतेषां यद्यद्विशेषगुणस्य प्रत्यक्षम्भवति तत्कारणगुणपूर्वकमेव, नतु शब्दस्य तथा प्रत्यक्षम् । शब्दस्य प्रत्यक्षञ्चेद्गन्धादिवदेव भवेत् , तदाऽयम्पृथिव्यादिप्वन्यतमस्यैव गुणः स्यात् । परन्तु-अग्निसंयोगासमवायिकारणकत्वाभावविशिष्टाकारणपूर्वकप्रत्यक्षत्वधर्मवानयं शब्दः तस्मान्न स्पर्शवतां विशेषगुण: । किन्तु तत् विलक्षणस्यैव द्रव्यस्य गुण इति ध्येयम् । तथाच पारमर्ष सूत्रम् – “कार्यान्तराप्रादुर्भावाच्छब्दः स्पर्शवतामगुण:" (वै० २। १ । २५) इति । दण्डाद्यभिघातेन भेर्यादिकार्ये शब्दस्य प्रादुर्भावेऽपि तद्भिन्ने घटपटादौ कार्यान्तरे तत्प्रादुर्भावाभावात् शब्दः स्पर्शवताम्पृथिव्यप्तेजोवायूनामगुणो विशेषगुणो नेत्यर्थः ।
सारसारस्तु-अयावद्दव्यभावी अयं शब्दः। द्रव्यस्थितिकालपर्यन्तं यस्य स्थितिः, असौ याबद्रव्यभावी । यथा-पृथिव्या गन्धादिगुणा उत्पद्यमाना यावत्कार्यस्थायिनो यावद्व्यभाविन इत्युच्यन्ते । शब्दस्तु न तथा, किन्त्वयम्मन्दमन्दतरमन्दतमादितारतम्यविशिष्टः शनैः शनैर्नाशमुपैति । अस्याश्रयो द्रव्यमाकाशन्तु न नश्यति, तस्मात्पृथिव्यादिगतगन्धादिगुणविपरीतधर्मवानयं न पृथिव्यादीनां
विशेषगुणः ।
ननु--माभूपृथिव्यादिचतुष्टयस्य शब्दो गुणः दिक्कालमनसां वा भविष्यति ? तत्राह-“शब्दो न दिकालमनसाम्" इति । तत्र हेतुमाह-"विशेषगुणत्वात्" इति । यो लौकिकसंयुक्तसमवायादिसम्बन्धेनेन्द्रियग्राह्यः, अस्ति च तेनैव सम्बन्धेन द्वीन्द्रियग्रहणाऽयोग्यत्वधर्मवान् गुणत्वव्याप्यजातिमांश्च स विशेषगुण इत्युच्यते । एतच्च गुणप्रस्तावे स्फुटीभविष्यति । दिक्कालमनःसु कश्चिदपि विशेषगुणो न वर्त्तत इति भावः ।
_ ननु-मा सैत्सीत् शब्दो दिगादीनां गुण: आत्मनस्तु सेत्स्यति ? तत्राह"नात्मविशेषगुण” इति । बहिरिन्द्रयग्राह्यत्वादिति हेतुः ग्राह्यत्वम्-प्रत्यक्षत्वम् । रूपवदिति दृष्टान्तः । यथा रूपं बहिरिन्द्रयजन्यप्रत्यक्षत्वधर्मवत् अतो नात्मगुणः एवं शब्दोपि । आत्मविशेषगुणानामिच्छादीनां बहिरिन्द्रियेण प्रत्यक्षमेव न भवतीतिभाव: । "इत्थञ्च" इति । परिशेषानुमानेन शब्दाधिकरणस्य नवमद्रव्यस्याकाशस्य सिद्धिरित्यर्थः।
एतदुक्तम्भवति-प्रसवप्रतिषेधेऽन्यत्राप्रसङ्गाच्छिष्यमाणे सम्प्रत्ययः परिशेषः ।