________________
आकाशसिद्धिः ।
“यो यो गुणः स स सर्वोऽपि
द्रव्यसमवेत" इति व्याप्तेः संयोगवदिति दृष्टान्त: । भवति हि करखड्गसंयोगः समवायेन करखड्गात्मकद्रव्याश्रितः गुणत्वात् । शब्दोऽपि गुणः, सावपि कस्यचिद् द्रव्यस्याश्रित एवं । नच " गुणत्वं" हेतुः स्वरूपासिद्ध वाच्यम्, पूर्वानुमानेन तत्साधितं यतः ।
११६
-
“इत्थञ्च " - इति । उक्तेनानुमानेन । शब्दस्य द्रव्यसमवेतत्वे - समवायसम्बन्धेन द्रव्याश्रितत्वे | सिद्धे - अनुमिते । तदनु परिशेषानुमानेन श्राकाशस्य सिद्धिः कर्त्तव्येति शेषः । तत्प्रकारं दर्शयति - " शब्दो न" - इति । स्पर्शवत् पृथिव्यादि - चतुष्टयम् । तस्य=पृथिवीजलतेजोवायूनामित्यर्थः । " चत्वारि स्पर्शवन्ति हि "इत्युकं साधर्म्यवैधर्म्यप्रकरणे । शब्दो न पृथिव्यादीनां विशेषगुणः । शब्दः पक्षः, पृथिव्यादिसम्बन्धित्वेन विशेषगुणत्वाभावः साध्यम् । तत्र हेतुमाह – “अग्निसंयोगासमवायि” – इत्यादि । अस्यायमर्थः - अग्निसंयोगाऽसमवायिकारणं यस्य अग्निसंयोगासमवायिकारणकः, तस्य भावस्तत्त्वम्, तदभावे सति इति । इदं हेतोविशेषणपदम् । “सप्तम्यन्तं विशेषणम्” इति नियमात् । कारणगुणपूर्वकप्रत्यक्षत्वात् = कारणगुणपूर्वकम्प्रत्यक्षं यस्य तत्कारणगुणपूर्वकप्रत्यक्षम् न कारणगुणपूर्वकप्रत्यक्षं तदकारणगुणपूर्वकप्रत्यक्षम् तस्य भावः तस्मात् अकारणगुणपूर्वकत्वे सति प्रत्यक्षत्वादित्यर्थः । ततश्चेत्थं व्याप्तेराकारः - यदग्निसंयोगरूपासमवायिकारणकत्वाभावविशिष्टाकारणगुणपूर्वकप्रत्यक्षं तन्न स्पर्शवद्विशेषगुणः । यदि विशेष्यभागमात्रमुच्येत तदा पाकजरूपादौ हेतोर्व्यभिचारः = अतिव्याप्तिः स्यात् । अस्ति च पृथिवीनिष्ठपाकजरूपादिचतुष्टये अकारणगुणपूर्वकप्रत्यक्षत्वम् । परन्तु तत्र श्रग्निसंयोगाऽ - समवायिकारणकत्वाभावः । यदि तु विशेषणभाग एव हेतू क्रियेत, तदा पटरूपादावतिव्याप्तिः=हेतोर्व्यभिचारः । अस्ति च पटरूपादीनां कारणगुणपूर्वकप्रत्यक्षत्वम्, यतः पृथिवीनिष्ठा अपाकजा रूपादयः कारणगुणोत्पन्ना उच्यन्ते । कारणगुणोत्पन्नत्व = स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् । तद्यथा – “स्वं" पटस्य रूपम्, तदाश्रयः पटः, तस्य समवायी तन्तुः, तत्र समवेतो गुणः तन्तुरूपमेव, तेन तन्तुरूपण असमवायिकारणेन पटरूपं + जन्यते श्रतः पटादिपृथिवीनिष्ट | पाकजरूपादिकं कारणगुणोत्पन्नमुच्यते, यतस्तथोत्पद्यते श्रतः कारणगुणपूर्वकमेवैषाम्प्रत्यक्षमिति युक्तम् । ततश्च – पटरूपादावपि अग्निसंयोगाऽसमवायिकारणकत्वाभाव:, नहि पटरूपादावग्निसंयोग: श्रसमवायिकारणम्, तथासति तेन तद्दाहापत्तेः, किन्तु पटरूपम्प्रति तन्तुरूपमेवासमवायिकारणम् । एवञ्चकैकभागस्यानुपादाने हेतुर्व्यभिचारी स्यात्, अत उभयदलमुपात्तम् । “जलपरमाणुरूपादौ " - इति । अस्ति हि जलपरमाणुरूपे
,
* समवायसम्बन्धेन द्रव्याश्रित इत्यर्थः
I
+ एतत् असमवायिकारणलक्षणज्ञानेन सुज्ञेयम् ।