________________
११८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्याः [प्रत्यक्षखण्डे जातिबाधकत्वात्, किन्त्वाकाशत्वादिकमुपाधिः । एतद्विस्तरेण जातिबाधकप्रसङ्गेऽवोचाम । इदन्तु बोध्यम्-किमिदमेकत्वं नामेति ? उच्यते-"एकत्वसङ्ख्यायोगि एकम्" इत्येकस्य लक्षणमिति चेत् ? इदं न सम्यक् घटादावतिव्याप्तेः, आकाशवद् घटादीनामप्येकत्वापत्तेः । “द्वित्वाद्यभाववदेकम्” इति चेत् तदपि न, "अयं घटः, अयमाकाश:, इमौ द्वौ" इति प्रतीत्या आकाशेऽपि द्वित्वसत्त्वं नतु द्वित्वाभावः, तस्य व्यासज्यवृत्तित्वात्, तथाचाऽसम्भवो लक्षणदोषः । "सजातीयमात्रवृत्तिद्वित्वाभाववदेकम्” इत्यपि न साधु, अाकाशसजातीयस्याकाशान्तरस्याभावात् तादृशद्वित्वस्याऽप्रसिद्धेः द्वित्वाभावाप्रसिद्धिरेव । "स्वप्रतियोगिकभेदासमानाधिकरणधर्मवत्त्वमेकत्वम्" इति तु युक्तम्पश्यामः । प्रकृते "स्व"पदेनाकाशग्रहः, स आकाशः प्रतियोगी यस्यैवंविधो यो भेदोऽन्योन्याभावः, तस्य असमानाधिकरणो यो धर्म अाकाशत्वम् , तद्वत्त्वमेव आकाशे एकत्वम् , अाकाशप्रतियोगिको भेदो नाकाशे (स्वस्मिन्स्वभेद भावात् ) किन्तु पृथिव्यादिषु वर्त्तते, तत्र च नाकाशत्वं धर्मः, अत एव आकाश स्वप्रतियोगिकभेदाऽसमानाधिकरणमुच्यत इति भावः ।
“विशेषगुणान्तर"-इति । रूपादीत्यर्थः, तस्य व्यवच्छेदोऽभावबोधनम् । शब्दं विहाय नान्यो रूपादिः कश्चिदप्याकाशे विशेषगुण: । तथाचार्ष सूत्रम्"त अाकाशे न विद्यन्ते" (वै० २।१।५) इति । ते रूपरसगन्धस्पर्शाश्चत्वारो गुणा आकाशे न सन्तीत्यर्थः । एतेन"वैशेषिको गुण” इति कथनेन । प्रमाणम्अनुमानम् । “तथाहि"- इति ।
चतुर्ग्रहणायोग्य" इति । हेतुवाक्यस्याऽयमर्थः-चक्षुर्ग्रहणायोग्या या बहिरिन्द्रियग्राह्या जातिः अर्थात् शब्दत्वम्, तादृशजातिमत्त्वात् । 'यो यश्चतुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमान् स स विशेषगुण" इति व्याप्तिः । स्पर्शवदिति दृष्टान्तः । चतुर्ग्रहणम्-चाक्षुषः साक्षात्कारः । ग्राह्यत्वम्=विषयता । वैयाकरणा मीमांसकाश्च शब्दस्य गुणभावं न मन्वते, तदुक्केनाऽनुमानेन खण्डितम्बोध्यम् । घटादौ व्यभिचारवारणाय "अयोग्य"--इत्युक्तम् । आत्मनि व्यभिचारवारणाय "बहिः रिन्द्रियग्राह्य"-इति । रसत्वादी व्यभिचारवारणाय “जातिमद्" इति ।
___ सम्प्रति शब्दस्य द्रव्याश्रितत्वं साधयति अनुमानान्तरेण-"शब्दो द्रव्यसमवेत" इति । शब्दात्मके पक्षे द्रव्यसमवेतत्वं साध्यम्, गुणत्वादिति हेतुः । स्पर्शव्यतिरेकादर्थान्तरमेकत्वम्" (वै० ७। २ । १) इत्यार्षसूत्रोक्तलक्षणकम्बोध्यम् । स्वरूपा. भेद इति भूषणम् । तन्न युक्तम् , घटस्वरूपाऽभेदश्चेदकत्वं तदा पटादावेकत्वप्रत्ययो न स्यादिति उपस्कारकारः । अधिकन्तु व्युत्पत्तिवादादिभ्योऽवगन्तव्यम् ।
* अत्र-शब्दः पक्षः, विशेषगुण इति साध्यम्, चक्षुग्रहणेत्यादि पञ्चम्यन्तं नाक्यं हेतुः, स्पर्शवत् इति दृष्टान्तः । एवमेवाग्रेऽपि यथायोगं ज्ञेयम् ।