________________
आकाशलक्षणम् ।
(का० ) आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः ॥ ४४ ॥
(मुला० ) आकाशं निरूपयति - आकाशस्येति । आकाशकालदिशामेकैकव्यक्तित्वादाकाशत्वादिकं न जातिः । किन्तु आकाशत्वं शब्दाश्रयत्वम् । वैशेषिक इति कथनन्तु विशेषगुणान्तरव्यवच्छेदाय | एतेन प्रमाणमपि दर्शितम् । तथाहि शब्दो विशेषगुणः चतुर्ग्रहणाऽयोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात् स्पर्शवत् । शब्दो द्रव्यसमवेतो गुणत्वात् संयोगवत् इत्यनुमानेन शब्दस्य द्रव्यसमवेतत्वे सिद्धे, शब्दो न स्पर्शवद्विशेषगुणः अग्निसंयोगाऽसमवायिकारणकत्वाभावे सत्यकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत् । पाकजरूपादौ व्यभिचारवारणाय सत्यन्तम् । पटरूपादौ व्यभिचारवारणाया कारणगुणपूर्वकेति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति । शब्दो न दिक्कालमनसां गुणः विशेषगुणत्वात् । नात्मविशेषगुणो बहिरिन्द्रियग्राह्यत्वाद्रूपवत् । इत्थञ्च -- शब्दाधिकरणं नवमं द्रव्यं गगननामकं सिध्यति । नच वाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्द उत्पद्यतामिति वाच्यम्, यावद्द्रव्यभावित्वेन वायुविशेषगुणत्वाभावात् ।
११७
( प्रभा० ) परममूले - " आकाशस्य " - इति । विशेष एव वैशेषिकः । विनयादिभ्यष्ठक् (५|४|३४ ) इति पाणिनिसूत्रेण स्वार्थे ठक् । कितिच ( ७/२/११८ ) इति वृद्धिः । ग्राकाशस्य शब्द एवैको विशेषगुणो नेतरे इत्यर्थः । तथाच - समवायेन शब्दाधिकरणत्वम्=शब्दगुणकत्वमाकाशत्वम्" इत्याकाशलक्षणम् । नतु " शब्दवत्त्वमाकाशत्वम्" इति । शब्दस्य सर्वदा आकाशे उपलब्धेरभावात् । यदि शब्दवत्त्वं लक्षणं स्यात् तदा तस्य संदैव शब्दवत्त्वमर्थः स्यात्, नित्ययोगे मतुप्प्रत्ययविधानात् । तथाचोक्तम्
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने ।
सम्बन्धेऽस्ति विवक्षायाम्भवन्ति मतुबादयः ॥ इति ।
एवं सति लक्षणस्याऽसम्भवो दोष: प्रसज्येत, तस्माच्छब्दाधिकरणत्वमेव लक्षणं युक्तम् ।
लाघवमनुसन्धाय कालत्वादीनामत्रैव जातित्वं निषेधयति – “आकाशकाल" - इति । श्राकाशत्वं कालत्वं दिक्त्वञ्चेत्यर्थः न जातिरिति । तत्र हेतुमाह - "* एकव्यक्तिकत्वात्" - इति । श्रनेकसमवेतत्वाभावात् एकव्यक्तिवृत्तिधर्मस्य
* सजातीयनिष्ठभेदाऽप्रतियोगी एक: । यथा - " अत्रायमेको भुङ्क्ते” इत्यत्र " एतद्दशा. धिकरणकभोजनकर्त्तृनिष्ठभेद।ऽप्रतियोगी भुङ्क्ते" इत्याकारको बोध: । एकत्वञ्च - "रूपरसगन्ध