________________
११६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
इदानीं शिष्यबुद्धिवैशद्याय कार्यद्रव्यस्योत्पत्तिविनाशप्रक्रियाक्रममाचक्ष्महे
महेश्वरस्य चिकीर्षावशात्प्रथमम्परमाणुषु क्रियोत्पद्यते । ततो द्वयोः परमाण्वोः संयोगः, तेन घणुकमुत्पद्यते । तत्र (ब्यणुकोत्पत्तौ ) परमाणुः समवायिकारणम् , परमाणुद्वयसंयोगोऽसमवायिकारणम्, परमेश्वरः तज्ज्ञानमिच्छा, तत्कृति: कालो दिक् प्रागभावोऽदृष्टम् (धर्माधौं) प्रतिबन्धकाभाव इति निमित्तकारणम् । एतानि कार्यमात्रम्प्रति साधारणनिमित्तकारणानि इति स्थलान्तरेऽवोचाम । एवं ब्यणुकोत्पत्त्यनन्तरं महेश्वरेच्छावशात् ब्यणुकेषु क्रिया, ततलिभिzणुकैरेकं त्र्यणुकमारभ्यते । एवमत्रापि ब्यणुकानि समवायिकारणम्, तेषां संयोगोऽसमवायिकारणम, ईश्वरेच्छादिकं निमित्तकारणम् । एवमेव पूर्ववत्तेषु सजातीयेषु त्र्यणुकेषु क्रिया, तैश्चतुर्भिः त्र्यणुकैरैकञ्चतुरणुकमुत्पद्यते । तेऽप्यसङ्ख्याता एवोत्पद्यन्ते । एवञ्चतुरणुकोत्पत्तौ सत्यां ततः पञ्चभिश्चतुरणुकैमिलित्वा एकं स्थूलतरं कार्यमारभ्यते, ततस्तैः स्थूलतः पञ्चभिः पञ्चागुकैर्मिलित्वा स्थूलतमं पञ्चाणुकाख्यं कार्यमारभ्यते । एवमेव पूर्वपूर्वकार्यापेक्षयोत्तरोत्तरं स्थूलकार्योत्पत्तिक्रमेण महती पृथिवी, महत्य. पापः, महत्तेजः, महान् वायुश्चोत्पद्यते।
ननु-त्रिभिः परमाणुभिरेक ब्यणुकं कुतो नारभ्यते ? ब्यणुकद्वयेन वा कुतो न त्र्यणुकोत्पत्तिरिति चेन्न प्रथमस्य द्रव्यारम्भकावे गौरवम् । द्वितीयस्य तथात्वे महत्त्वा. नुपपत्तिः, कार्यमहत्त्वे कारणमहत्त्वस्य कारणबहुत्त्वस्य वा हेतुत्वात् ।।
एवं महेश्वरस्य कार्यद्रव्यसञ्जिहीर्षावशात् परमाणुषु क्रियोत्पत्तिः । ततः परमाणुद्वयस्य विभागः, ततो द्वयोः परमाण्वोः संयोगनाश:, ततो ड्यणुकनाशः, ततस्त्र्यणुकनाशः, एवञ्चतुरणुकादिनाशक्रमेण महापृथिव्यादीनां नाश: । अयमेवावान्तरप्रलय इत्युच्यते । सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलय इति तल्लक्षणात् । महाप्रलयस्तु सर्वभावकार्यध्वंस: । भावकार्यञ्च अनित्यं द्रव्यम्, अनित्या गुणाः, अनित्यं कर्म चेति बोध्यम् ।
पुन: सृष्टिसद्भावे किम्मानमिति चेत् ? “धाता यथापूर्वमकल्पयत्" (ऋ० १०।१६०।१-२-३) इत्यादिश्रुतिरपि । मीमांसकास्तु संसारप्रवाहो बीजाङ्कुरन्यायेन अनादिरनन्तः, नैव प्रलयसद्भावे मानमित्याहुः । समवायिकारणनाशाद् द्रव्यनाशः, क्वचिदसमवायिकारणनाशादपि इति प्राञ्चः । सर्वत्रासमवायिकारणनाशाद् द्रव्यनाश:, एवं सति लाघवमिति नव्याः । विस्तरोऽन्यतोऽनुसन्धेयः ।
इति कार्यद्रव्योत्पत्तिविनाशक्रमः ।
ब्यान इत्येकस्यैव वायोः क्रियास्थानाभ्याम्भेदेन व्यवहार इत्याशयः । अन्येऽपि प्राणवायो गाद्या भेदा मतान्तररीत्या तर्कसङ्ग्रहस्य "बालबोधिनी'टीकायाम्मया प्रपञ्चिताः, तत एव निरीक्षणीयाः ।