________________
वायोः प्राणादिभेदः ।
तस्याभिव्यञ्जको व्यजनपवनो यथा वायवीय: = वायुपरमाणुभिरारभ्यमाणः तथैव त्वगिन्द्रियं स्पर्श मात्र व्यञ्जकत्वाद्वायवीयमित्यर्थः ।
“येनेन्द्रियेण यद् गृह्यते” इति न्यायेन स्पर्शत्वजातेरप्यभिव्यञ्जकं त्वगिन्द्रियं नतु स्पर्शस्यैवाभिव्यञ्जकमित्यसिद्धो हेतुरिति शङ्कानिरासाय " रूपादिषु मध्य"इत्युक्तम् | एवं मनसि व्यभिचारवारणाय " एव" पदम् | त्वगिन्द्रियसन्निकर्षेऽतिव्याप्तिवारणाय " द्रव्यत्वे सति” इत्यपि हेतौ विशेषणं देयमिति शम् ॥ ४२, ४३ ॥
(का० ) प्राणादिस्तु महावायुपर्यन्तो विषयो मतः ।
( मुक्का० ) विषयं दर्शयति - प्राणादिरिति । यद्यप्यनित्यो वायुश्चतुविधः । तस्य चतुर्थी विधा प्राणादिरित्युक्तमाकरे । तथापि संक्षेपादत्र त्रैविध्यमुक्तम् । प्राणस्त्वेक एव हृदादिनानास्थानवशान्मुखनिर्गमादिनानाक्रियावशाच्च नानासंज्ञां लभत इति ।
( प्रभा० ) परममूले - " प्राणादिस्तु " - इति । श्रादिना श्रपानसमानोदानव्यानाः पञ्च शरीरान्तःसञ्चारिणः, बाह्याश्च वृक्षादिकम्पनहेतवो गृह्यन्ते । तत्र सर्वेषा - मवधिर्महावायुः । अयम्प्रलयकालिकः पुराणादिप्रसिद्धः । तथाचोक्तं श्रीमद्भागवतमहापुराणे एकादशस्कन्धे तृतीयाध्याये
११५
-
" वायुना हृतगन्धा भूः सलिलत्वाय कल्प्यते " इति । "" प्राणस्त्वक एव " - इति । तथाचोक्तम्
"हृदि * प्राणो गुदेऽपानः समानो नाभिसंस्थितः ! उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ॥ इति ॥
इति तत्तत्स्थान रूपोपाधिवशान्मुख निर्गमनादिक्रियारूपोपाधिवशाच्च एकस्यापि प्राणस्य पञ्च भेदा जाता इत्यर्थः । अत्र वायुसाधकान्यनुमान्तराण्यपि द्रष्टव्यानि । तथाहि—श्रसति रूपवदद्द्रव्याभिघाते योऽयम्पर्णादिषु शब्दसन्तानः स स्पर्शवद्वेवगवद्द्रव्यसंयोगजन्यः श्रविभज्यमानावयव द्रव्यसम्बन्धिशब्दसन्तानत्वात् दण्डाभिहतभेरीशब्दसन्तानवत् ।
नभसि तृणतूलजस्तनयित्नुविमानानां धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोगहेतुका श्रस्मदाद्यनधिष्ठितद्रव्यधृतित्वात् नौकाधृतिवत् ।
रूपवद्द्रव्याभिघातमन्तरेण वृक्षादिकम्पः स्पर्शवद्वेगवद्द्द्रव्याभिघातजन्यः विजातीयकम्पत्वात् नदीपूराहतकुशकाशादिकम्पवत् । एषाम्प्रपञ्चस्तु ग्रन्थगौरवभयान्न कृत:, स्वयमूह्यः ।
इति वायुग्रन्थः ।
* मुखनासिकाभ्यां निष्क्रमणप्रवेशनात् प्राणः, मलादीनामघोनयनात् श्रपानः, . श्राहारेषु पाकार्थं वह: समुन्नयनात् समानः, अन्नादेरूर्ध्वनयनात् उदानः, नाडीसुखेषु वितननाद