________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
विलक्षणत्वात् । अतोऽदृष्टलिङ्गः अदृष्टविशेषव्याप्तिकोऽदृष्टः, स लिङ्गमनुमापकं यस्य, स वायुरित्यर्थः । अनुमानेन=*सामान्यतोदृष्टेन विलक्षणस्पर्शाश्रयस्य सिद्धावपि तस्य विशेषसज्ञा वायुरिति "प्राणाद्वायुरजायत" (यजु० ३१।१३) इत्यागमाद्वोन्या। उकञ्चर्षिणा-'तस्मादागमिकम्” ( २ । १ । १७) इति ।
(मुक्का०) पूर्ववदिति । वायुर्द्विविधो नित्योऽनित्यश्च । परमाणुरूपो नित्यस्तदन्योऽनित्योऽवयवसमवेतश्च । सोऽपि त्रिविधः, शरीरेन्द्रिय विषयभेदात् । तत्र शरीरमयोनिजं पिशाचादीनाम् । परन्तु जलीयतेजसवायवीयशरीराणाम्पार्थिवभागोपष्टम्भादुपभोगक्षमत्वालादीनाम्प्राधान्याजलीयत्वादिकमिति । अत्र यो विशेषस्तमाह--देहव्यापीति । शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक् । तच्च यायवीयं रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात्, अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनपवनवत् ॥ ४२, ४३ ॥
(प्रभा०) “पूर्ववत्" इति स्पष्टयति “वायुर्द्विविध" इत्यादिना । "अयोनिजम्" इति । अयोनिजमेवेत्यर्थः । “पिशाचादीनाम्" इति । मरुतां लोके प्रसिद्धमिति शेषः । प्रशस्तपादे इत्थमेव दर्शनात् । शिष्टं स्पष्टम् ।
ननु-वायवीयशरीरैः कथञ्जीवानाम्भोगः वायौ करचरणाद्यवयवाभावात् इत्याशङ्कायामाह-"परन्तु"-इति । पार्थिवभागोपष्टम्भात् पार्थिवांशसंयोगविशेषात् । उपभोगक्षमत्वम्भोगसाधनयोग्यता । आक्षेपसमाधानयोस्तुल्यत्वात् प्रकरणलाघवमनुसरन् साधारणं समाधानं वक्तुम् “जलीयतैजसवायीयशरीराणाम्" इत्युक्तम् । सर्वत्र जलीयादिशरीरेषु पार्थिवभागस्यैव साहाय्येन भोगसाधनत्वं ज्ञेयमिति भावः । अत्र-त्वगिन्द्रिये । यो विशेषः अधिष्ठानादिः । त्वचि स्थितमिन्द्रियं त्वगिन्द्रियम् । तस्य लक्षणमाह-"स्पर्श"-इति । अत्र-स्पर्शाविषयकत्वेन ज्ञानस्य निवेशे गौरवात् स्पार्शनत्वेनैव निवेशः । तथाच-स्पार्शनत्वावच्छिन्नकार्यतानिरूपितकारणत्वं त्वगिन्द्रियलक्षणमिति फलितम् । कार्यमानजनककालादावतिव्याप्तिवारणाय "इन्द्रियम्" इति । चक्षुरादावतिव्याप्तिवारणाय "स्पर्शग्राहक" इति । त्वक् त्वगिन्द्रियमित्यर्थः । त्वगिन्द्रियस्य वायुकार्यत्वमनुमानेन साधयति-"तच्च” इत्यादिना । “रूपादिषु मध्य"--इति । “यद् रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकम् ग्राहकं तद् वायवीयम्" इति व्याप्तिः । अत्र दृष्टान्तमाह-"अङ्गसङ्गि"-इति । अङ्गसङ्गिसलिलम्स्वे दः तन्निष्ठं शैत्यं शीतस्पर्शः
* सामान्यतो दृष्टं नाम-यत्राऽप्रत्यक्ष लिङ्गलिङ्गिनोः सम्बन्धे केनचिदर्थेन लिङ्गस्य सामान्यादप्रत्यक्षो लिङ्गी गम्यते तत् । यथा इच्छादिभिरात्मा । इच्छादयो गुणा:, गुणाश्च द्रव्यसंस्थानाः, तद्यदेषां स्थानं स आत्मा, इति न्यायभाष्ये ।