________________
वायोलक्षणम् ।
११३
(का०) अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः ॥४२॥
तिर्यग्गमनवानेष ज्ञेयः स्पर्शादिलिङ्गकः ।
पूर्ववन्नित्यतायुक्तं देहव्यापि त्वगिन्द्रियम् ॥४३॥ (मुक्का०) वायुं निरूपयति--अपाकज इति । अनुष्णाशीतस्पर्शस्य पृथिव्यामपि सत्त्वादुक्कमपाकज इति । अपाकजस्पर्शस्य जलादावपि सत्त्वादुक्कमनुष्णाशीत इति । तेन वायवीयो विजातीयः स्पर्शो दर्शितः। तज्जनकतावच्छेदकं वायुत्वमिति भावः । एष वायुः स्पर्शादिलिङ्गकः । वायुर्हि स्पर्शशब्दधृतिकम्पैरनुमीयते, विजातीयस्पर्शेन विलक्षणशब्देन तृणादीनां धृत्या शाखादीनां कम्पेन च वायोरनुमानात् । यथाच वायोर्न प्रत्यक्षं तथाग्रे वक्ष्यते । __(प्रभा०) वायुं लक्षयति परममूले-"अपाकज" इति । उक्नलक्षणस्य पदकृत्यं दर्शयति--"अनुष्णाशीतस्पर्शस्य"--इत्यादिना । वायौ पाकजः स्पर्शो 'न भवतीति पृथिवीस्पर्शव्युदास: । अनुष्णाशीतोऽव्यक्तशीतोष्णो विजातीयः पार्थिवजलीयस्पर्शाभ्यां विलक्षण इत्यर्थः । एतेन अनुष्णाशीतस्पर्शवत्वं वायुत्वमिति वायुलक्षणम्फलितम् । उपञ्चर्षिणा-"स्पर्शवान् वायुः” (वै० २ १।४) । अत्र स्पर्शोऽनुष्णाशीतो ग्राह्यः । तेन वायवीयो विजातीयस्पर्शी लभ्यते' इति विवृतिकारः।
एष वायुः तिर्यग्गमनवान् । अत्र युक्तिमाह-"शेय"--इति । स्पर्शशब्दधृतिकम्पाः स्पर्शादिपदार्थाः, एते लिङ्गमनुमानं यस्य स स्पर्शादिलिङ्गकः । तथाच वायुरनुमेयो न प्रत्यक्ष इत्यर्थः । इत्याशयेनाह-वायवीय"- इति । “तजनकता. वच्छेदकम्"- इति । विजातीयानुष्णाशीतस्पर्शनिष्टजन्यतानिरूपिता या जनकता सा किञ्चिद्धर्मावच्छिन्ना, इत्यादिरीत्या वायुनिष्ठजनकतावच्छेदकं वायुत्वमिति वायुत्वजातिसिद्धिः । इदमुपलक्षणम्- शब्दविशेषस्य निमित्तकारणतावच्छेदकतयाऽपि वायुत्वजातिसिद्धिः । स्पर्शादिलिङ्गकः-स्पर्शादीनि लिङ्गानि यस्य स तथा । "धृतिः" इति । गुरुणो द्रव्यस्याऽपतनम्-पतनाभावः धृतिः । "वायोरनुमानात्" इति । अनुमानप्रकारश्व—“योऽयं रूपववव्याऽसमवेत: स्पर्शः स क्वचिदाश्रितः स्पर्शत्वात् पृथिवीसमवेतस्पर्शवत्" इति । तथाच पारमर्षे सूत्रम्-"न दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः" (वै० २।१।१०)। अस्यायमर्थः-उपलभ्यमानोऽयं विजातीयः स्पर्श: दृष्टिविषयाणां प्रत्यक्षभूतानां पृथिव्यप्तेजसां नैव भवितुमर्हति,
* उपस्कारकारस्तु-रूपाऽसमानाधिकरणस्पर्शसमानाधिकरणजातिमत्त्वम् , रसाऽ. समानाधिकरणाऽनुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्रम् , गन्ध.समानाधिकरणाऽनुष्णाशीतस्पर्शसमानाधिकरणजातिमत्त्वं वेत्यादि वायुलक्षणञ्चकार ।