________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुकावल्याः
[प्रत्यक्षखण्डे
पूर्वरूपस्य पीतवर्णस्य पूर्ववदेव विद्यमानत्वात् । पृथिवीगतरूपस्य अग्निसंयोगेन परावृत्ति - जयते इति नियमः । अत्र तु तद्विरुद्धतादर्शनात् । तत्प्रतिबन्धकम् = रूपपरावृत्तिप्रतिबन्धकम् । विजातीयद्रवद्रव्यम् = विलत्तणद्रवत्वधर्मवद् द्रव्यम् । कल्प्यते = अनुमीयते ।
११२
कल्पनाप्रकारमेव दर्शयति- " तथाहि " इत्यादिना । श्रत्यन्ताग्निसंयोगे पीतिमगुरुत्वाश्रयः” इति पक्षः । विजातीयेत्यादि साध्यम् । अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूप विजातीयेत्यादि हेतुः । जलमध्यस्थेति दृष्टान्तः ।
"विजातीय " - इति । विजातीयरूपप्रतिबन्धकं यद् द्रवद्रव्यं तत्संयुक्तः, तेन सह संयोगसम्बन्धवान् । “पूर्वरूप " - इति । पूर्वं रूपं पीतरूपं तद्विजातीयरूपं श्यामादिकं तस्यानधिकरणं तदनाश्रयः तत्वादित्यर्थः ।
श्रयमत्राशयः - यदाऽतिप्रदीप्ते वह्नौ सुवर्णपिण्डः प्रक्षिप्यते, तदाऽसौ पानीयवद् द्रवति । तदन्तर्वर्त्ती पीतवर्णाश्रयः पार्थिवो भागोऽपि द्रवतीव । परमयं नियमो वर्त्तते - " यद्रूपरसगन्धस्पर्शाः पृथिव्याम्पाकजा श्रनित्याश्च" इति । यदा पार्थिवभागस्य वह्निनाऽतिसंयोगो भवति, तदा तस्य पूर्वरूपतः किमपि विलक्षणं रूपमुत्पद्यते । यथा श्यामवर्णस्याऽऽमघटस्य वह्नौ प्रक्षेपे रक्तरूपपरावृत्तिर्दृश्यते । परं सुवर्णपिण्डान्तर्वर्त्तिनस्तस्य ताद्यगेव रूपं तिष्ठति, यादृशम्पूर्वमासीत् । नच परावर्त्तते, तेन वयमनुमिमीमहे = कल्पयाम:, यदस्ति किमपि तादृशं द्रव्यम्, यतिमात्रमनिसंयोगे सत्यपि पार्थिवभागस्य रूपपरावृत्तिं प्रतिबध्नाति । तन्न पृथिवी अनुच्छिद्यमानद्रवत्वात् नापि जलमग्नेरनुपशमात् । किन्तु पृथिवीजलाभ्यां भिन्नमेव । यच्च तद्भिन्नं तत्ते एवेति सिद्धः सुवर्णस्य तेजोभावः ।
नवीनास्तु- सुवर्णं न तैजसम्, किन्तु पार्थिवम् " पीतं सुवर्णम्” “द्रुतं सुवर्णम्” इति प्रत्यते जायमाने विनैव दोषं तस्य भ्रमत्वकथनमयुक्तम् । श्रग्निसंयोगेऽपि यत्तस्य न पूर्वरूपनाश:, तत्र विलक्षणं स्वर्णद्रव्यमेव प्रतिबन्धकमिति वदन्ति । सोऽयं सर्वोऽपि सुवर्णप्रपञ्चः (ग्रन्थः ) "तेजस्त्वाभिसम्बन्धात् तेजः" इत्यारभ्य " श्राकरजं सुवर्णादि" इत्यन्तप्रशस्तग्रन्थमूलक एव ।
इति तेजोग्रन्थः ।
* वदन्तीत्यनेनास्वरसः सूचितः । स च पार्थिवस्यापि भागस्य तदानीं द्रवत्वानङ्गीकारसम्भवेन प्रमात्वसम्भवात् । स च प्रतिषिद्धः ग्रन्थकृता मसीतोदवत् पार्थिवभागस्याऽद्रुतत्वाङ्गीकारात् । द्रव्यान्तरसंयोगस्यैवाऽन्यत्र पार्थिवरूपद्रवत्वनाशप्रतिबन्धकत्वेन क्लृप्ततया तत्रैव तादात्म्येन स्वस्य तदुभयनाशकनाशप्रतिबन्धकत्वकल्पने ऽन्यत्राऽदृष्टकल्पनापत्तेरिति तदुपेक्षितम् ।