________________
सुवर्णस्य तैजसत्वसाधनम् ।
१११
womamrpornnar
दृष्टान्तवाक्यम् । तदयमर्थः-असतिप्रतिबन्धके प्रतिबन्धकसंसर्गाभावे सति अत्यन्तं योऽनलसंयोगो वह्निसंसर्गः तस्मिन्सत्यपि अनुच्छिद्यमानमविनश्यद् यद् द्रवत्त्वं तत्त्वात् । यन्नैवम् यदसतिप्रतिबन्धकेऽत्यन्तानलसंयोगे अनुच्छिद्यमानद्रवत्त्वाधिकरणं न अर्थात् तादृशप्रतिबन्धकसंसर्गाभावकालेऽप्यत्यन्तानलसंयोगेन यस्य द्रवत्त्वमुच्छिन्नम्विनाशि भवति । तन्नैवम् तत्तैजसमपि न भवति । यथा पृथिवी। घृतलाक्षारूपायाः पृथिव्या असति प्रतिबन्धके अत्यन्तानलसंयोगे द्रवत्वं विनश्यति । अत एव घृतादिकं न तैजसम् । सुवर्णन्तु पृथिवीविरुद्धस्वभावत्वात्तैजसमेव ।
ननु-इदमनुमानमप्रयोजकम् ? । सुवर्णपक्षे "असतिप्रतिबन्धक" इत्यादिकं हेतुरस्तु साध्यं यत् तैजसं तन्माभूत् विपक्षे बाधकतर्काऽसत्त्वादित्याक्षेपपूर्वकं समाधानमाह-"न"-इत्यादिना।
घृतलाक्षादिपृथिव्यां जन्यजले च द्रवत्वमस्ति, तदग्निसंयोगनाश्यं सुवर्णद्रवत्वन्तु अत्यन्ताग्निसंयोगे सत्यपि न नश्यति । यदि सुवर्णं तैजसं न स्यात्, तर्हि अत्यन्तानलसंयोगाऽनाश्यद्रवत्वधर्मावच्छिन्नमपि न स्यात् । यथा घृतादिरित्ययमेव विपक्षबाधको ममानुकूलस्तर्क इति भावः ।
किञ्च--"अग्नेरपत्यम्प्रथमं हिरण्यम्" इत्याद्यागमान्यथानुपपत्तिरपि मम सिद्धान्तिनोऽनुकूलस्तर्कः । अर्थात् सुवर्ण यदि तैजसं न स्यात्, तर्खेतदागमप्रतिपाद्यग्न्यपत्यत्ववन्न स्यात् इति तर्कस्य सत्त्वमानुकूल्यम् । ____ उक्तानुमाने व्यभिचारमाशङ्कते-"मनु" इति । पीतस्य भावः पीतिमा, गुरोर्भावो गुरुत्वम् , पीतिमा च गुरुत्वञ्च ते पीतिमगुरुत्वे, तयोराश्रयः पार्थिवद्रव्यमित्यर्थः, तस्य पीतमगुरुत्वाश्रयस्य । तेजसि पीतमवर्णाभावात् गुरुत्वाभावाच्च । तदानीम् अत्यन्तानलसंयोगकाले । द्रुतत्वात्-द्रवणवत्त्वात् । व्यभिचारः हेतोः साध्याभावाधिकरणवृत्तित्वम् । साध्यं तैजसत्वम् , तदभावस्तैजसत्वाभावः, तदधिकरणस्पृथिवीभागः, तत्रापि “अत्यन्तानलसंयोगादिहतोर्गतत्वमेव' इति व्यभिचारः । समाधत्ते-"न" इति । "जलमध्यस्थ"-इति । जलमध्ये स्थितो यो मसीक्षोदः चूर्णविशेषः तद्वत् । अर्थात् यथा जले द्रवति सति तदन्तर्वर्तिनि मसीक्षोदेऽपि द्रवणप्रत्ययो जायते, परमसौ प्रत्ययो भ्रमात्मकः, एवमेव अत्यन्तानलसंयोगेन सुवर्णे द्रवति सति तन्मध्यवर्तिनि पीतिमगुरुत्वाश्रयपार्थिवभागेऽपि जायमानो द्रवणप्रत्ययो न वास्तविक इति भावः । ___ प्रकारान्तरेण सुवर्णस्य तैजसत्वं साधयताम्मतमुपन्यस्यति-"अपरे तु"इत्यादिना । पीतिमाश्रयस्य पार्थिवभागस्य अत्यन्ताग्निसंयोगेऽपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूपस्य पीतवर्णस्य अपरावृत्तिदर्शनात् परावर्तनम्=परावृत्तिः, परावृत्तेर्दर्शनम्परावृत्तिदर्शनम्, न परावृत्तिदर्शनम् अपरावृत्तिदर्शनं तस्मात् । अर्थात्