________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ प्रत्यक्षखण्डे
दृष्टान्तस्थाने “प्रभावत्” इति दृष्टान्तवाक्यं स्यात् । तथाच प्रथमं "परकीय "पदं न देयम्, हेतुस्तु - " स्पर्शाद्यव्यञ्जकत्वे सति परकीय रूपव्यञ्जकत्वात्" इति कल्पनीय इत्यर्थ: । तेन नैव विशेषणासिद्धिवारणक्लेशः । नहि प्रभा स्वस्पर्शव्यञ्जने परकीयस्पर्शव्यन्जने वा समर्था इंति हेतोर्विशेषणं सिद्धमेवेति भावः । ननु - तथापि हेतौ व्यभिचारो दोषः घटचतुः संयोगः स्पर्शादेरव्यञ्जकः परकीयरूपव्यञ्जकश्च, परं न तैजसः एवं तैजसत्वसाध्याभाववति चतु:संयोगे गतत्वादयं हेतुर्व्यभिचारीति शङ्कां वारयितुमाह – “चक्षुः सन्निकर्ष" - इति । तथाच - " द्रव्यत्वे सति स्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यन्जकत्वात्" इति हेतुशरीरं घटनीयम् । घटचतु:संयोगः स्पर्शाद्यव्यञ्जकः परकीयरूपव्यञ्जकोऽपि न द्रव्यम् अपि तु गुण इति न व्यभिचारगन्धः ।
"
( मुक्का० ) विषयं दर्शयति - वह्निरिति । ननु सुवर्णस्य तैजसत्वे किम्मानमिति चेन्न, सुवर्ण तैजसमसति प्रतिबन्ध के प्रत्यन्तानलसंयोगे - प्यनुच्छिद्यमानजन्यद्रवत्वात् यन्नैवं तन्नैवम्, यथा पृथिवीति । नचाप्रयोजकम् पृथिवीद्रवत्वस्य जन्यजलद्रवत्वस्य चात्यन्ताग्निसंयोगनाश्यत्वात् । ननु - पीतिमगुरुत्वाश्रयस्य पार्थिवभागस्यापि तदानीं द्रुतत्वात्तेन व्यभिचार इति चेन्न, जलमध्यस्थमसी क्षोदकवत्तस्याद्भुतत्वात् अपरे तु - पीतिमाश्रयस्य अत्यन्ताग्निसंयोगे ऽपि पूर्वरूपापरावृत्तिदर्शनातत्प्रतिबन्धकं विजातीयद्रवद्रव्यं कल्प्यते । तथाहि - अत्यन्ताग्निसंयोगे पीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः श्रत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणत्वात् जलमध्यस्थपीतपटवत् । तस्य च पृथिवीजलभिन्नस्य तेजस्त्वनियमात् ।
( प्रभा० ) "विषयं दर्शयति " - इति । तैजसो विषयश्चतुर्विधः । भौमदिव्यौ - दर्यांकरजभेदात् । भौमं वह्नथादिकम् । श्रबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिमाणहेतुरुदर्थम् । करजं सुवर्णादीत्यभिप्रायवान् "वह्निस्वर्णादिर्विषयो मतः " इति परममूलग्रन्थः । उक्तञ्च न्यायकन्दल्याम् - भोगिनामदृष्टवशेन भूयसाम्पार्थिवावयवानामुपष्टम्भादनुद्भूतरूपस्पर्श पिण्डीभावयोग्यं सुवर्णादिकमारभ्यते, तत्र पार्थिवद्रव्यसमवेता इमे रसादयो गृह्यन्त इति ।
११०
सुवर्णस्य तैजसत्वे मानम्पृच्छति - " ननु " - इति । किमाप इति केचित् । नास्त्येव सुवर्णस्य तैजसत्वे मानं तद्विरुद्धप्रमाणसत्त्वात् । तथाहि – सुवर्णम्पार्थिवं नैमित्तिकद्रवत्ववत्त्वाज्जतुप्रभृतिवदित्यनुमानेन सुवर्णम्पार्थिवमेवेति श्राप्तुराशयः ।
तदेतत्समाधत्ते - "न" - इति । "सुवर्ण तैजसम्" इति प्रतिज्ञावाक्यम् । "असति प्रतिबन्धक" इत्यादि हेतुवाक्यम् । "यन्नैवं तन्नैवम्" इत्यादि व्यतिरेकि -