________________
चक्षुषस्तैजसत्वासिद्धिः। नैमित्तिकद्रवत्वरूपे तेजोलक्षणेऽसम्भवदोषम्परिहृत्य तत्राव्याप्तिदोषमतिव्याप्तिदोषञ्च परिहर्तुमाक्षेपसमाधानाभ्यां ग्रथ्नाति "नच" इत्यादि । समाधानग्रन्थस्याऽयमर्थः-पृथिव्यामवृत्तिः (न वृत्तिर्वर्तनं यस्या: सा अवृत्तिः) नैमित्तिकद्वत्त्ववति= तेजसि वृत्तिर्यस्याः सा तादृशी या द्रव्यत्वस्य साक्षाड्याप्या जातिः तेजस्त्वं तादृशजातिमत्त्वम् "नैमित्तिकद्रवत्त्ववत्त्व"पदेन विवक्षितमिति नाग्न्यादावव्याप्तिापि घृतादिरूपायाम्पृथिव्यामतिव्याप्तिः। पूर्ववदितीत्यादिग्रन्थो निगदव्याख्यातः ।
(का०) इन्द्रियं नयनं वह्विस्वर्णादिविषयो मतः ।
(मुक्ता०) अत्र यो विशेषस्तमाह-ननु चक्षुषस्तैजसत्वे किम्मानमिति चेत्, चक्षुस्तैजसम्परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्प्रदीपवत् । प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वादत्र दृष्टान्तेऽव्याप्तिवारणाय प्रथमम्परकीयेति । घटादेः स्वीयरूपव्यञ्जकत्वायभिचारवारणाय द्वितीयम्परकीयेति । अथवा प्रभाया दृष्टान्तत्वसम्भवादाद्यम्परकीयेति न देयम् । चतुःसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् ।।
(प्रभा०) "इन्द्रियं नयनम्" इत्यादिना । चतुषस्तैजसत्वमाक्षिपति"ननु"-इति । तत्रानुमानम्प्रमाणयति-"चतुस्तैजसम्' इति । यत् परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकं तत् तैजसं दृष्टम् , यथा प्रदीप इति प्रतिबन्धसिद्धिः ।
____ यदि हेतुविशेषणम् “स्पर्शाद्यव्यञ्जकत्वे सति" इत्येवोच्येत, तदा दृष्टान्ते प्रदीपे विशेषणासिद्धिरूपो दोष: स्यात् तं निवारयितुम् “परकीय” इतिपदं निवेशितमित्यभिप्रायेणाह-"दृष्टान्तेऽव्याप्तिवारणाय"-इति। प्रदीपः स्वीयस्पर्शव्यञ्जकः सन्नपि न परकीयस्पर्शव्यञ्जकत्वे समर्थः। . परन्तु घटाद्या अपि पदार्थाः परकीयस्पर्शाव्यञ्जका: सन्तो विषयतासम्बन्धेन स्वीयरूपव्यञ्जकाः, एवञ्च तेषु हेतोर्व्यभिचारः स्यादतस्तद्वारणाय हेतौ द्वितीयम् "परकीय"पदं दत्तमित्यभिप्रायेणाह-"घटादेः स्वीयरूप" इत्यादि।
हेतौ शरीरकृतं लाघवमभिप्रेत्य कल्पान्तरमाह-'अथवा" इति । प्रदीप
* अस्य जातिघटितलक्षणस्य पदकृत्य प्रकारोऽयम्-नैमित्तिकद्रवत्त्वववृत्तिः पृथिवीत्वजातिः, तामादाय पृथिव्यामतिव्याप्ति:, यदि 'पृथिव्यवृत्ति'पदं नोच्येत । अतस्तत्र अतिव्याप्तिनिरासाय "पृथिव्यवृत्ति'पदमुपात्तम् ।।
___ यदि तु "नैमित्तिकद्रवत्ववत्त्व'पदं न दीयेत तदा "पृथिव्यवृत्तिजाति'पदेन जलत्वमपि गृहीतुं शक्यते, तेन जलेऽतिव्याप्तिः । एवमेव वायुत्वमादाय वायावतिव्याप्तिः, तद्वारणाय "नैमित्तिकद्वत्वववृत्ति" इति पदं दत्तम् । वायुतेजोऽन्यतरत्वमादाय वायावप्यतिव्याप्तिरायाति तन्निवारणाय "जाति''पदं निवेशितम् ।