________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
शुक्लत्वभास्वरत्वयोः पृथिवीभागीयरूपाभिसम्बन्धेनाग्रहः । तथा प्रकृते चन्द्रकिरणादौ उष्णस्पर्शसत्वेऽपि बलवत्सजातीयजलीयस्पर्शणाग्रहः । उकं न्यायं रत्नकिरणादावपि योजयितुमाह-"एवम्" इति । पार्थिवस्पर्शन-तदन्त:पार्थिवस्पर्शेनेत्यर्थः । ननु-चक्षुरादौ नाभिभवः, तत्र कुतो नोष्णस्पर्शोपलब्धिरिति शङ्कायामाह"चक्षुरादौ"--इति । अनुभूतत्वात् अनुत्कटत्वात् । अग्रहः-ज्ञानाभावः । वैश्वानरे वह्नौ । सुगममन्यत् ।
(मुक्ता०) अथ-तद्रूपाग्रहे धर्मिणोऽपि चाक्षुषत्वं न स्यादिति चेन्न, अन्यदीयरूपेणाऽपि धर्मिणो ग्रहसम्भवात्, शङ्खस्येव पित्तपीतिना । वह्नस्तु शुक्लरूपं नाभिभूतम्, किन्तु तदीयं शुक्लत्वमभिभूतमित्यन्ये । नैमित्तिकमिति । सुवर्णादिरूपे तेजसि तत्सत्त्वात् । नच नैमित्तिकद्रवत्वं दहनादावव्याप्तं घृतादावतिव्याप्तश्चेति वाच्यम् , पृथिव्यवृत्तिनैमित्तिकद्रवत्ववदवृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वस्य विवक्षितत्वात् । पूर्ववदिति । जलस्येवेत्यर्थः । तथाहि-तत् द्विविधं नित्यमनित्यश्च । नित्यम्परमाणुरूपं तदन्यदनित्यम् , अवयवि च । तच्च त्रिधा शरीरेन्द्रियविषयभेदात् । शरीरमयोनिजमेव । तच्च सूर्यलोकादौ प्रसिद्धम् ॥४१॥
(प्रभा०) ननु-यदि वह्नौ पार्थिवरूपेण स्वरूपस्य-भास्वरशुक्लरूपस्य अभिभवः तर्हि तस्य भास्वरशुक्लरूपधर्मिणो वह्नेः प्रत्यक्षं न स्यात्, द्रव्यीयचाक्षुषप्रत्यक्ष स्वगतोद्भूतरूपस्य कारणत्वात् इत्याशङ्कते-"अथ"-इति । क्वचित् “ननु" इति पाठान्तरम् । तद्पाग्रहे-वैश्वानरादिरूपादिग्रहे । धर्मिणोः वैश्वानरादेः । चाक्षुषत्वम्-चाक्षुषप्रत्यक्षविषयत्वम् । खण्डयितुमाह-“इति चेन्न"- इति । सिद्धान्तं प्रथ्नाति-"अन्यदीयरूपेण"- इति । पार्थिवरूपेणेत्यर्थः । अस्यायमर्थः-नायं नियमो यत्स्वगतरूपसाक्षात्कारे सत्येव तद्धर्मिणो द्रव्यस्य साक्षात्कारः । किन्तु द्रव्यायचाक्षुषप्रत्यक्षे उद्भूतरूपमात्रमपक्षितं तत्स्वीयं स्यादन्यदीयं वेति नाग्रहः । यथा “पीतः शङ्खः' इत्याकारकशङ्खात्मकप्रत्यक्षं नेत्रगतपीतिमद्रव्यसम्बन्धेन तद्गतपीतप्रत्यक्षेणापि जायते, तथैव पार्थिवभागीयरूपसम्बन्धेन वैश्वानरस्य प्रत्यक्ष न किञ्चित् बाधकम्पश्यामः । अत्रैव मतान्तरमाह-"वह्नस्तु" इति । अक्षराणि स्पष्टानि । तथापि-स्वसवायिसमवायिसंयुक्तसमवेतत्वसम्बन्धेन पीतत्वजात्या शुक्लत्वमभिभूतमित्यर्थो बोध्यः । “स्व'पदेन पीतत्वग्रहमुन्नीय सम्बन्धो घटनीयः।।
परममूले–“नैमित्तिकं द्रवत्वम्" इति । तथाच-"नैमित्तिकद्वत्ववत्त्वं तेजस्त्वम्" इत्यपरं तेजोलक्षणम् । ननु-तेजसि नास्त्येव द्रवत्वमित्युक्तलक्षणेऽसम्भवो दोष इति शङ्कां वारयितुमाह-"सुवर्णादिरूप" इति । तत्सत्त्वात् नैमित्तिकव्रत्वसत्त्वादित्यर्थः ।
HIRIDHHHHHHHHHHI