________________
तेजः प्रपञ्चः ।
वानुसन्धेयम् । नचोष्णस्पर्शवत्त्वञ्चन्द्रकिरणादावव्याप्तमिति वाच्यम्, तत्राप्युष्णत्वस्य सत्त्वात् । किन्तु तदन्तःपातिजलस्पर्शेनाभिभवादग्रहः । एवं रत्नकिरणादौ पार्थिवस्पर्शेनाभिभवाच्चक्षुरादौ चानुद्भूतत्वादग्रहः । रूपमित्यादि । वैश्वानरे मरकतकिरणादौ च पार्थिवरूपेणाभिभवाच्छुक्लरूपाग्रहः ।
-
( प्रभा० ) " उष्णत्वम् ” – इति । धर्मत्वमित्यर्थः । प्रत्यक्षसिद्धः" =त्वाचप्रत्यक्षवेद्यः । “ इत्थञ्च" - इति । प्रत्यक्षप्रमाणेन उष्णत्वजातिसिद्धौ चेत्यर्थः । “येनेन्द्रियेण” इत्यादिन्यायेन त्वगिन्द्रियेणोष्णस्पर्शज्ञानम्, तेनैव तन्निष्ठाया उष्णत्वजातेरपि ग्रहः । एवमुष्णस्पर्शनिष्ठा या कार्यता, तादृशकार्यतानिरूपिता या तेजोनिष्ठा कारणता, तदवच्छेदकत्वं तेजस्त्वं जातिविशेषः, तत्सिद्धिरनुमानेनेत्यर्थपरोऽयम् "जन्योष्णस्पर्श” इत्यादिग्रन्थः । अत्र पारमर्ष सूत्रम् - "तेजोरूपस्पर्शवत् ” (वै० २।१।३ ) इति । श्रुतिरपि – “यदग्ने रोहितं रूपम् तेजस्तद्रूपम् ” ( छा० ६ । ४ । १ ) इति तेज श्राह । यत्तु — कश्चिद्भास्वरं शुकं रूपमिति नवनाः, लोहितं रूपमिति वैदिका इत्युक्तवान् स'भ्रान्तः श्रातरोहितरूपस्य भास्वरशुक्लार्थपरत्वेनापि नेतुं शक्यत्वात् ।
१०७
ननु – जन्योष्णस्पर्शसमवायिकारणज्जन्यं तेजः, तत्र तेजस्त्वजातिसिद्धावपि तद्भिन्नेषु तेजः परमाणुषु कथं तेजस्त्वजातिसिद्धिरित्यत आह - "तस्य परमाणुवृत्तित्वम् " - इति । यथा जन्यजलत्वावच्छिन्नजनकतावच्छेदकतया जलपरमाणौ जलत्वञ्जातिः सिध्यति, तथैव जन्यतेजस्त्वावच्छिन्नजनकतावच्छेदकतया तेजः परमाणुCafe daस्त्वाख्या जातिः सिध्यतीति भावः ।
किञ्च यत्र समवायेन श्राम्रादिफलेषु पूर्वरसादिपरावृत्तिः मधुररसाद्यन्तरो - . त्पत्तिश्च तत्रापि समवायेन विलक्षणतेजःसंयोग एव कारणम्, तादृशकारणतावच्छेकतयापि तेजस्त्वजातिसिद्धिर्द्रष्टव्या ।
,
चन्द्रकिरणादावुष्णस्पर्शवत्त्वस्य तेजोलक्षणस्यातिप्रसक्तिमाशङ्कय समाधत्ते“नच" इत्यादिना । “चन्द्रकिरणादौ " इत्यत्र श्रादिपदेन हरिका दिल किरणादेरपि परिग्रहः । तत्रापि= चन्द्रकिरणादावपि । उष्णत्वस्य = उष्णस्पर्शस्येत्यर्थः । सत्त्वात् = विद्यमानत्वात् । यदि चन्द्रकिरणादावुष्णत्वं तदा कुतो न त्वचा गृह्यते, प्रत्युत तत्प्रतियोगिनः शीतस्पर्शस्यैव ग्रह इत्याशङ्कायामाह - " किन्तु " - इति । तदन्तःपातिजलस्पर्शेन = चन्द्रकिरणान्तर्गतजलभागीयशीतस्पर्शेन । अभिभवो नाम बलवत्सजातीयसम्बन्धः । बलवत्सजातीयग्रहण कृतमग्रहणं वा । यथा सुवर्णरूपवृत्ति
―――
* समवायसम्बन्धावच्छिन्ना आम्रादिफलगतमधुररसनिष्ठा या कार्यता, तादृशकार्यता निरूपिता या समवायसम्बन्धावच्छिन्ना तेजः संयोगनिष्ठा कारणता, सा किञ्चिद्धर्मावच्छिन्ना निरवच्छिन्नाया: कारणताया प्रभावात् । यश्च धर्मस्तस्या अवच्छेदकः स एव जातिरिति भावः ।