________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
-romans
सिन्धुरिति । सिन्धुः समुद्रः । हिमन्तुषारः। श्रादिपदात् सरित्कासारकरकादिः सर्वोऽपि ग्राह्यः । नच हिमकरकयोः कठिनत्वात् पार्थिवत्त्वमिति वाच्यम् , ऊष्मणो विलीनस्य तस्य जलत्वस्य प्रत्यक्षसिद्धत्वात्, यद् द्रव्यं यद्रव्यध्वंसजन्यमितिव्याप्तेजलोपादानोपादेयत्वसिद्धेः । अदृष्टविशेषेण द्रवत्वप्रतिरोधात्करकायाः काठिन्यप्रत्ययस्य भ्रान्तित्वात् ॥४०॥
- (प्रभा०) रसनेन्द्रियस्य जलीयत्वेऽनुमानम्मानमाह-"रसनञ्जलीयम्"इत्यादि । रसनमिति पक्ष:, जलीयमिति साध्यम्, गन्धाद्यव्यञ्जकत्वे सतीत्यादि हेतुः, सक्तुरसेत्यादि दृष्टान्तवाक्यम् । रसव्यञ्जके मनसि हेतोर्व्यभिचारमाशङ्कयाह"गन्धाद्यव्यञ्जक"-इति । मनस्तु गन्धादेरपि व्यञ्जकं नतु केवलं रसव्यञ्जकम् , इदन्तु रसमात्रव्यञ्जकत्वाजलीयमिति । यद् गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकं तज्जलीयम् , यथा सक्तुरसाभिव्यञ्जकमुदकञ्जलीयमिति प्रतिबन्धसिद्धिः । जलीयम्= जलारम्भकपरमाणुभिद्यणुकादिक्रमेणारभ्यमाणमित्यर्थः ।
"करकादि" इत्यत्र प्रादिपदात् कूपादिपरिग्रहः । “कठिनत्वात्'--इति । कठिनस्पर्शवत्त्वादित्यर्थः । विलीनस्य तस्येत्यत्र सप्तम्यर्थे षष्ठी । विलीनताया द्रवत्वरूपाया जत्नत्वव्यञ्जकत्वादिति भावः । विलीने करकादौ जलत्वस्य प्रत्यक्ष घनावस्थायामपि तजलतो न भिन्नमित्यत्र नियमं दर्शयति-"यद द्रव्यम्"-इति । यजलरूपं द्रव्यं यतो हिमकरकादिद्रव्यस्य ध्वंसाजन्यम्भवति, तज्जलरूपं द्रव्यं हिमकरकादि द्रव्यस्योपादानरूपेणैवोपादेयम्भवतीत्यत्रोक्तनियमसञ्चारो बोध्यः।
___ अनया व्याप्त्या हिमकरकादिर्न जलाभिन्नः पदार्थ इति भावः । हिमकरकादिषु कठिनस्पर्शप्रतीतिस्तु भ्रान्त्यैवेति बोध्यम् । यतो जीवानामदृष्टविशेषेणैव जलगतं द्रवत्वं प्रतिबद्धम् , तेन तत्र कठिनताप्रत्ययः, नतु वास्तविकं काठिन्यं येन हिमादीनाम्पार्थिवत्वं स्वीक्रियेतेति रहस्यम् । शिष्टं स्पष्टम् ।
सर्वस्यास्य जलग्रन्थस्य मूलम् “अप्त्वाभिसम्बन्धादपि” इत्यारभ्य "विषयस्तु सरित्समुद्रहिमकरकादिः' इत्यन्तः प्रशस्तग्रन्थो ज्ञेयः ॥ ४० ॥
इति जलग्रन्थः ।
(का०) उष्णः स्पर्शस्तेजसस्तु स्याद्रूपं शुक्लभास्वरम् ।
. नैमित्तिकं द्रवत्वन्तु नित्यतादि च पूर्ववत् ॥४१॥ __(मुक्का०) तेजो निरूपयति "स्पर्श उष्ण" इत्यादिना । उष्णत्वं स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः । इत्थञ्च जन्योष्णस्पर्शसमवायिकारणतावच्छेदकन्तेजस्त्वञ्जातिविशेषः। तस्य परमाणुवृत्तित्वन्तु जलस्ये.