________________
जलस्य नित्यादिविभागः, रसनेन्द्रियस्य जलीयत्वसिद्धिश्च ।
१०५
जलस्य स्नेहसमवायिकारणत्वात् । तेन जल एव स्नेह इति मन्तव्यम् । द्रवत्वमिति । सांसिद्धिकद्रवत्वत्वञ्जातिविशेषः प्रत्यक्षसिद्धः, तदवच्छिन्नजनकतावच्छेदकमपि तदेवेति भावः। तैलादावपि जलस्य द्रवत्वं स्नेहप्रकर्षेण च दहनानुकूल्यमिति वक्ष्यति ॥ ३६॥
(प्रभा०) "घतादावपि"-इति । घृतादिपृथिव्यां यः स्नेह उपलभ्यते, असावपि जलस्यैव । जलमेव स्नेहसमवायिकारणमिति भावः । पूर्वक्षलत्वजातिसिद्धौ प्रदर्शितमिदम् । “तदवच्छेदकमपि"- इति । सांसिद्धिकद्रवत्वनिष्ठा या जन्यता, तन्निरूपिता या जनकता, तदवच्छेदकञ्जलत्वमेवेति भावः । शिष्टं स्पष्टम् । ननु-यदि स्नेहो जलधर्मः कथं तर्हि तस्याग्निप्रज्वलनानुकूलता जलेनाग्नेरुपशमोपलम्भादित्याशङ्कयाह-“तैलादावपि"-इति । प्रकृष्टः स्नेहस्तैलादिगतः जलगुणो दहनानुकूल:, अप्रकृष्टश्च दहनप्रतिकूल इति भावः । “इति वक्ष्यति" इति । स्नेहनिरूपणावसरे गुणग्रन्थ इति शेषः ॥ ३६॥
(का०) नित्यतादि प्रथमवत्किन्तु देहमयोनिजम् । - इन्द्रियं रसनं सिन्धुहिमादिविषयो मतः ॥४०॥
(मुक्ता०) प्रथमवदिति । पृथिव्या इवेत्यर्थः । तथाहि-जलं द्विविधं नित्यमनित्यश्च । परमाणुरूपं नित्यं घणुकादिकं सर्वमनित्यमवयवसमवेतश्च । अनित्यमपि त्रिविधं शरीरेन्द्रियविषयभेदात् । पृथिवीतो यों विशेषस्तमाह । किन्त्विति । देहमयोनिजम् । अयोनिजमेवेत्यर्थः । जलीयं शरीरं वरुणलोके प्रसिद्धम् ।।
(प्रभा०) "प्रथमवदिति”--इति । प्रथमस्येव प्रथमवत् । “तत्र तस्येव" (५।१।११६) इति षष्ठयन्ताद्वतिप्रत्ययः । “जलीयं शरीरम्" इति । तच्च पृथिवीभागोपष्टब्धमेव ज्ञेयम् । यथा पार्थिवशरीरमपि जलादिभागोपष्टब्धम् । तेन जलमात्रे हस्तपादादिव्यवस्थाया असम्भवेऽपि न क्षतिः लक्षणासम्भवदोषो नेत्यर्थः । नन्वेतादृशं शरीरं वास्तीति ? अाह-वरुणलोक" इति । परमिदं शरीर. मयोनिजमेव । तथाच प्रशस्तपादे उक्तम् -तत्र शरीरमयोनिजमेव वरुणलोके पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम्" इति ।
(मुक्का०) इन्द्रियमिति । जलीयमित्यर्थः । तथाहि-रसनञ्जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् सक्तुरसाभिव्यञ्जकोदकवत् । रसनेन्द्रियसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं देयम् । विषयं दर्शयति
* वरुणो नाम अपामधिष्ठात्री देवता । अत्र वेदमन्त्रः- "वरुण: प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतां नः सुधारसः ॥ (ऋ० मं० १।६। २४) इति ।