________________
१०४ . सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
आशङ्कय समाधत्ते-"नच"--इत्यादिना । जलेन सहाऽऽस्यगतवाष्पविशेषस्य सम्बन्धेन हरीतक्यामेव रसान्तरमुत्पद्यते मधुराख्यम् , नतु तज्जलीयमिति शङ्काकर्तुरभिप्राय: । . कल्पनागौरवान्नैतदादराहमिति सिद्धान्तिनोऽभिप्रायः । हरीतक्यामेव रसान्तरोत्पत्तिस्वीकारवादिनो मते कल्पनागौरवप्रकारश्वायम् --''फलादिरूपायाम्पृथिव्यां यत्र पूर्वरसनाशे रसान्तरोत्पत्तिदृश्यते, तत्र विलक्षणतेजःसंयोगः पाकविशेष एव हेतुः" इति सार्वभौमो नियमः । यदि तु हरीतकीदृष्टान्तानुरोधेन जलसंयोगोऽपि पृथिवीरसोत्पादकः स्वीक्रियेत, तदा अधिककार्यकारणभावस्य कल्पना गुरुभूतैव, अर्थात् तेज:संयोगस्तु पृथिवीरसव्यञ्जकः स्वीकृतः क्लृप्त एव, तत्समो जलसंयोगोऽप्यन्यः कल्पनीय इति प्रतिवादिमते कार्यकारणभावद्वयकल्पनया गौरवम् । मम सिद्धान्तिनो मते तु जलगतस्यैव मधुररसस्य व्यञ्जिका हरीतकीति नास्ति गौरवम् । अधिकं रामरुज्यादौ निरीक्ष्यं ग्रन्थगौरवभयात्सुकुमारमतीनाञ्चानुपयोगान्न बहु प्रपञ्च्यते ।
ननु-अस्तु जले मधुरो रसस्तथापि जम्बीरजलादौ प्रत्यक्षसिद्धस्याम्लरसाऽनुभवस्य कथमपलाप: कत्तुं शक्येत इत्याशङ्कमानम्प्रत्याह- "पृथिवीत्वस्य"-इति । श्राम्लादिरसनिष्ठा या जन्यता, तादृशजन्यता निरूपिता या जनकता (पृथिवीनिष्ठा) तदवच्छेदकम्पृथिवीत्वम् , पृथिव्यामेव नतु जल इति जले नाम्लादिरसस्वीकारः, अर्थात् पृथिवीत्वसमानाधिकरणक एवाम्लादिरसो नतु जलत्वसमानाधिकरणकः ।
कथं तर्हि जम्बीररसादावाम्लरसोपलब्धिरिति ? तत्राह--"जम्बीररसादौ"इति । स्वसमवायिसंयोगसम्बन्धेन पृथिवीगतस्य प्राम्लरसस्य जले प्रत्यय प्रौपाधिक एवेत्यर्थः ।
जलत्वजातावनुमानम्प्रमाणमाह--"एवम्"--इति । “जन्यशीतस्पर्श"-- इति । जन्यशीतस्पर्शनिष्ठा या जन्यता, तन्निरूपिता या जनकता, तदवच्छेदकञ्जन्यजलत्वम् । एवञ्जन्यजलनिष्ठा या जन्यता, तन्निरूपिता या जनकता, तदवच्छेदकत्वं शुद्धजलत्वमेव, निरवच्छिन्नायाः जनकताया अभावादित्यर्थः।। - ननु--शीतस्पर्शवत्वं न जललक्षणञ्चन्दनादिपृथिव्यामपि शैत्यसत्त्वाद्धर्षणेन तदुपलब्धेरितीमां शङ्काम्परिहर्तुमाह-“घृष्टचन्दनादौ"--इति । “सलिलस्यव"इति । एवकारो घृष्टचन्दनव्यवच्छेदार्थः । अर्थः स्पष्टः । पूर्वमुक्तम् "शीत एव स्पर्श" इति तत्साधयति-"तेजःसंयोगात्' इति । स्वसमवायिसंयोगसम्बन्धेन "तेजस एवौष्ण्यञ्जले प्रतीयत" इति भावः । तत्र हेतुमाह-“पाकासम्भवात्' इति । पूर्वस्पर्शनाशकस्पर्शान्तरोत्पादकविजातीयतेज:संयोगासम्भवादित्यर्थः ।
(मुक्ता०) स्नेहस्तत्रेति । घृतादावपि तदन्तर्वर्तिजलस्यैव * स्नेहः
* उक्तश्च प्रशस्तपादे द्रव्यग्रन्थे जलनिरूपणे-'स्नेहोऽम्भस्येव सांसिद्धिकञ्च द्रवत्वम्" अत्राह कन्दलीकारः-निर्विशेष एव स्नेहोऽपां वैधय॑मिति ध्वनति" इति ।