________________
जले मधुररससिद्धिः ।
-
नीलत्वप्रतीतिरित्याह ? - " नीलत्वप्रतीतिस्तु ” – इति । स्वसमवायिसंयोगसम्बन्धेन उपष्टम्भकपार्थिवभागगतनीलरूपप्रतीति: कालिन्दीजलादौ । पृथिवीसम्बन्धेन नीलरूपप्रतीति: औपाधिकी, नतु स्वाभाविकं नीलरूपं यमुनाजल इत्यर्थः । लापन
१०३
प्रकारस्तु स्पष्ट एव ।
:
( मुक्का० ) अथ जले माधुर्ये किम्मानम्, नहि प्रत्यक्षेण को पि रसस्तत्रानुभूयते । नच नारिकेलजलादौ माधुर्यमुपलभ्यत एवेति वाच्यम्, तस्याश्रयोपाधिकत्वात् । अन्यथा जम्बीररसादावम्लाद्युपलब्धेरम्लादिमत्त्वमपि स्यादिति चेन्न, हरीतक्यादिभक्षणस्य जलरसव्यञ्जकत्वात् । नच हरीतक्यामेव जलोष्मसंयोगाद्रसान्तरोत्पत्तिरिति वाच्यम्, कल्पनागौरवात् । पृथिवीत्वस्याम्लादिजनकतावच्छेदकत्वाश्च जले नाम्लादिकम् । जम्बीररसादौ त्वाश्रयोपाधिकी तथा प्रतीतिः । एवञ्जन्यशीतस्पर्शजनकतावच्छेदकञ्जन्यजलत्वम्, तदवच्छिन्नजनकतावच्छेदकन्तु जलत्वम्बोध्यम् । घृष्टचन्दनादौ तु शैत्योपलब्धिश्चन्दनान्तवर्तिशीततरसलिलस्यैव । तेजः संयोगाजले उष्णप्रतीतिरौपाधिकी स्फुटैव । तत्र पाकासम्भवात् ।
( प्रभा० ) * स्वसमवायिसंयोगसम्बन्धेन पार्थिवभागगतं नीलरूपं यमुनाजले प्रतीयते नतु नीलरूपं तत्र समवेतम् । "स्व" पदेन नीलरूपम्, तस्य समवायी = समवायसम्बन्धेनाधारः पृथिवीभागः, तस्य संयोगो जलेन सहास्तीति परम्परा - सम्बन्धद्वारा जलाधोवर्त्तमानपार्थिवभागरूपोपाधिना जले नीलरूपत्वप्रत्ययो भ्रम इति भावः । अत्रैव गमकमाह – “वियति विक्षेप " - इति । नीलताप्रतीतिघटकस्योक्तसम्बन्धस्य श्राकाशे जलप्रक्षेपेण नाशादिति भावः ।
-
जले मधुररसमाक्षिपति – “अथ " - इति । " नहि प्रत्यक्षेण " - इति । रासनप्रत्यक्षेण जले न कस्यचिद्रस्य प्रत्यय इत्यर्थः । यदि द्राक्षेतुनारिकेलजलादौ माधुर्योपलम्भात्तत्र मधुर एव रस इत्युच्येत ? तत्राह -- “ श्राश्रयोपाधिकत्वाद"-- इति । पूर्ववत् स्वसमवायिसंयोगसम्बन्धेन पार्थिवभागगतस्यैव मधुररसस्योपलम्भ: त्वसौ स्वाभाविकः । अत्रैव परपक्षे बाधकम्प्रदर्शयन् स्वपक्षसाधकं तर्कमाह - “अन्यथा” – इत्यादिना । श्राश्रयोपाधिकत्वानङ्गीकारे इत्यर्थः ।
उक्तमाक्षेपं तिरस्करोति - " इति चेन्न " -- इत्यादिना । " जलरस "इति । जलीयरसज्ञापकत्वादित्यर्थः । जलेऽनुद्बुद्धो मधुरो रसो वर्त्तत एव, उद्बुद्धरूपतया तस्य प्रतीतिस्तु --यदा हरीतकी आमलकं वा भक्षितं स्यात्, ततो रसनेन्द्रियवर्त्तिविशिष्टमलापनयनेन मधुररसस्य स्पष्टः प्रत्ययो जायत इत्याशयः । * स्वम्पार्थिवभागगतं नीलरूपम् !