________________
१०२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे
इदमपि लक्षणमेवेति प्रकारान्तरेण साधयितुमाह--"अथवा"-इति । "नैमित्तिकद्रवत्त्ववद" इति । नैमित्तिकद्वत्त्ववती पृथिवी, तेजश्च नैमित्तिकद्रवत्त्ववत् । तत्र प्रवृत्ति:=न वृत्तिर्यस्याः तादृशी या रूपववृत्तिः द्रव्यत्वस्य साक्षाज्याप्या जातिः, अर्थात् जलत्वमेव तद्वत्त्वम् “शुक्लरूपवत्त्व"पदेन विवक्षितमित्यर्थः । युक्तञ्चैतत् श्रुतिमूलकत्वात् । तथाच श्रुति:-“यच्छुल्नं तदपाम्” इति । (छां० ६।४।१) एवञ्च शुक्नं रूपमपां स्वाभाविको धर्मः । तथैव रसद्वत्वस्नेहा नैजा गुणाः प्रतिनियताः, अपर्यनुयोज्या हि वस्तुशक्तिः । स्फटिकादावतिव्याप्तिवारणाय कल्पान्तर. माह-"अभास्वर"-इति । अभास्वरम् पराप्रकाशकं यच्छुक्लं रूपम्, तदितररूपं मीलपीतादिकम् , भास्वरं शुक्लरूपञ्च, तदसमानाधिकरणम् तदधिकरणभिन्नाधिकरणकं यद्रूपं तादृशरूपवजलमेव, तद्वृत्तिर्या द्रव्यत्वस्य साक्षायाव्याप्या जातिजलत्वम् , तादृशजातिमत्त्वं विवक्षितमिति न पृथिव्यादिष्वतिव्यातिरूपो दोष इत्यर्थः ।
(मुक्ता०) रसस्पर्शाविति । जलस्य मधुर एव रसः शीत एव स्पर्शः। तिकरसववृत्तिमधुरववृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वं तदर्थः, तेन शर्करादौ नातिव्याप्तिः । शीतेतरस्पर्शवदवृत्तिस्पर्शवद्वृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वं तदर्थः । ननु--शुक्लरूपवत्त्वमेवेति कुतः, कालिन्दी. जलादौ नीलिमोपलब्धेरिति चेन्न, नीलजनकतावच्छेदिकायाः पृथिवीत्वजातेरभावाजले नीलरूपासम्भवात् । कालिन्दीजले नीलत्वप्रतीतिस्त्वा. श्रयौपाधिकी । अत एव वियति विक्षेपे धवलिमोपलब्धिः।
(प्रभा०) "मधुर एव"-इति । शर्करादावजलेऽपि मधुररससत्त्वादतिव्याप्तिः, ताम्परिहर्तुं जातिघटितलक्षणमाह-"तिक्करसवद्" इति । तिक्करसवती पृथिवी तस्यामवृत्तिा , मधुररसवति (जले) वृत्तिर्वतनं यस्याः , सा च तादृशी द्रव्यत्वस्य साक्षाड्याप्या जाति लत्वम् , तादृशजातिमत्त्वम् "मधुररसवत्त्व"पदेन विवक्षितम् । शर्करादौ मधुररससत्त्वेऽपि तिकरसवदवृत्ति तिः, अर्थात् जलत्वं न वर्त्तते, किन्तु ततो विरुद्धः तिकरसववृत्तिः पृथिवीत्वं धर्मो वर्तत इति शर्करादौ नातिव्याप्तिः ।
.. जले शुक्लमेव रूपमित्यसहमानः शङ्कते- "ननु"-इति । कालिन्दी यमुना । तस्या: जलम् । नीलिमोलब्धेः नीलताप्रतीतेः । समाधत्ते-"न"-इति । यदाक्षिप्तं जले नीलरूपं तन्नेत्यर्थः । तत्र हेतुमाह-"नीलजनकता'-इति । नीलनिष्ठजन्यतानिरूपितजनकतेत्यर्थः।
अयमर्थः-नीलरूपनिष्ठा या जन्यता-कार्यता तादृशजन्यतानिरूपिता या जनकता, अर्थात् पृथिवीनिष्ठा कारणता, तदवच्छेदकत्वम्पृथिवीत्वं जातिरूपो धर्मः, तस्याभावात् जले नीलरूपस्यैवासम्भवे इति कुतो नीलरूपवत्त्वमिति । कथं तर्हि
: ॐ न वृत्तिवत्तनं यस्याः सा “प्रवृत्तिः” ।