________________
जलत्वजातिसाधने सिद्धान्तप्रकारः।
१०१
नियमात्" इति । यथारण्यस्थोऽपि दण्डः कदाचिददृष्टवशात् कुलालगृहमुपेतो घटञ्जनयत्येव, एवमेव परमाणावपि कदाचिजन्यस्नेहोत्पत्तियोग्यताहेतोर्भवितव्यमेव जन्यस्नेहेनेति पूर्वपक्षयितुराशयः । वस्तुतस्तु-अरण्यस्थदण्डादेरनित्यत्वात्तत्र स्वरूपयोग्यत्वेऽपि फलावश्यम्भावनियमाभावः, नित्यस्य स्वरूपयोग्यतायामवश्यम्फलेन भवितव्यमित्यभिसन्धिः पूर्वपक्षिणः ।
सिद्धान्तम्प्रदर्शयितुमाह--"इति चेन्न"-इति । “जन्यस्नेहजनकता"इति । जन्यो यः स्नेहः, तजनकम्जन्यजलम् , तनिष्ठा कारणता, तदवच्छेदिका जातिर्जन्यजलत्वमित्यर्थः । जन्यजलत्वजातेः जन्यजलमात्रवृत्तिजातेः । "तदवच्छिन्ना"--इति । जन्यजलत्वजात्यवच्छिन्नेत्यर्थः । तथाचायम्प्रयोगः फलतिसमवायसम्बन्धावच्छिन्नजन्यजलत्वावच्छिन्नजन्यजलनिष्ठा जन्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्ना या शुद्धजलनिष्ठा समवायिकारणता, सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् घटगतकार्यतानिरूपितदण्डवृत्तिकारणतावदिति ।
पूर्वञ्जन्यस्नेहनिष्ठकार्यताधर्मेण कारणतामनुमिमीमहे-तेन जन्यजले जलत्वं कारणतावच्छेदको जातिरूपो धर्म: सिध्यति । पश्चात् जन्यजलनिष्ठकार्यताधर्मेण नित्यजले अर्थात् जलपरमाणौ कारणतानुमानेन शुद्धजलेऽपि जलत्वजातिसिद्धिनिष्प्रत्यूहेति परमसारः *।
(मुक्ता०) शुक्लरूपमेव जलस्येति दर्शयितुमुक्तं वर्णः शुक्ल इति । नतु शुक्लरूपवत्त्वं लक्षणम् । अथवा नैमित्तिकद्रवत्ववदवृत्तिरूपवद्वृत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वम् , अभास्वरशुक्लेतररूपासमानाधिकरणरूपवत्तिद्रव्यत्वसाक्षायाप्यजातिमत्त्वं वा तदर्थः । तेन स्फटिकादौ नातिव्याप्तिः।
(प्रभा०) “नतु शुक्लरूपवत्त्वम्"--इति । पृथिव्यादावपि शुक्लरूपसत्त्वादतिव्याप्तिः स्यात् , तस्माद् “वर्ण: शुक्ल" इति न जललक्षणम् , किन्तु पृथिव्यादिवत् जलेऽपि शुक्लो वर्ण इत्येवं दर्शयितुमुक्कम्बोध्यम् ।
ॐ परे तु-"स्थूलजलवृत्तिप्रत्यक्षसिद्धजलत्वरूपजात्यवच्छिन्नसमवायिकारणतावच्छेदकतया परमाणुसाधारणजलत्वजातिसिद्धि:, कार्यतावच्छेदककारणतावच्छेदकयोरैक्ये क्षत्यभावात् , नित्यसाधारणधर्मस्य कार्यतावच्छेदकत्वे दोषाभावाचेत्याहुः" इति दिनकरी । परमिमम्पक्षप्राचीना “प्रभा" न सहते तथाहि-स्थूलजले प्रत्यक्षप्रमाणसिद्धजलत्वमेव व्यवहारबलात् परमाणुयणुकयोरपि स्वीक्रियते इत्येतावदिष्टसिद्धेः कार्यतावच्छेदककारणतावच्छेदकयोस्क्यस्वीकारस्य नित्यवृत्तिधर्मस्य कार्यतावच्छेदकत्वस्वीकारस्य चायुक्तत्वादिति । परमिदं महच्चित्रमाभात्यस्माकं यद्व्यवहारबलात्परमाणुयणुकादिनित्यानित्यवृत्तिजलखे स्वीक्रियमाणेऽपि कार्यतावच्छेदककारणतावच्छेदकयोरैक्यस्वीकारस्याऽयुक्तत्वकथनं नामेति, युक्ताऽयुक्तविवेचने सुधियः सन्तु साक्षिणः ।