________________
१००
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे अथ परमाणौ जलत्वं न स्यात्तत्र जन्यस्नेहाभावात्, नित्यस्य च स्वरूपयोग्यत्वे फलावश्यम्भावनियमादिति चेन्न, जन्यस्नेहजनकतावच्छेदकतया जन्यजलत्वजातेः सिद्धौ, तदवच्छिन्नजनकतावच्छेदकतया जलत्वजातिसिद्धेः।
(प्रभा०) मूले-"वर्णः शुक्ल इति"-इति । सर्व वाक्यं सावधारणम् , यथा "अब्भक्षो वायुभक्ष" इति न्यायेन अप एव भक्षयति, वायुमेव भक्षयतीत्यर्थो लभ्यते, तथैवात्रापि जले शुक्ल एव वर्ण:, मधुर एव रसः, शीत एव स्पर्शः, जल एव स्नेह इति ज्ञेयम् । तथाचार्ष सूत्रम् - "रूपरसस्पर्शवत्य श्रापो द्रवाः स्निग्धा:" ( वै० २ । १ । २) । तत्र जले द्रवत्वं सांसिद्धिकं स्वाभाविकमुदाहृतमुक्तमिति यावत् । एवन्च-अभास्वरशुक्लमात्ररूपवत्त्वम् , शीतमात्रस्पर्शवत्त्वम् , स्नेहवत्त्वम् , सांसिद्धिकद्रवत्ववत्त्वमिति जलस्यानेकानि लक्षणानि बोध्यानि । - जलत्वजातौ प्रमाणमाह- "स्नेह"- इति । कारणतावच्छेदकतया धर्मसिद्धौ बाधकाभावात्तस्य जातित्वमिति भावः । अयमर्थः- समवायसम्बन्धावच्छिन्ननेहत्वावच्छिन्नस्नेहनिष्ठकार्यतानिरूपिता * तादात्म्यसम्बन्धावच्छिन्ना या जलनिष्ठा समवायिकारणता, सा किञ्चिद्धर्मावच्छिन्ना. कारणतात्वाद् घटगतकार्यतानिरूपितदण्डवृत्तिकारणतावदिति जलत्वजातावनुमानम्मानम्, यथा पूर्व द्रव्यत्वजातावुकम् ।।
नित्ये जलपरमाणौ स्नेहो नित्य इति नित्यस्नेहवृत्ति स्नेहत्वं धर्मो न । कार्यतावच्छेदकं, तत्कथं स्नेहनिष्ठकार्यतया जलत्वजातिसिद्धिरिति शङ्कते-"यद्यपि" इति । जलपरमाणौ स्नेहस्य निल-वृत्तित्वम् , जलब्यणुकादौ तस्याऽनित्यवृत्तित्वमत पाह"नित्यानित्यवृत्तितया"-इति । समाधत्ते-"जन्यस्नेहत्वम्" इति । (जलीय)ड्यणुकादिनिष्टस्नेहस्य जन्यत्वात् तदादाय स्नेहत्वं कार्यतावच्छेदकमपि, तेन जलत्वजातिसिद्धौ बाधाभावः । एवञ्च-प्रदर्शितानुमाने "नेह"पदात्पूर्व “जन्य". पदनिवेशः कार्य इति भावः।
परमाणौ-जलपरमाणौ जन्यस्नेहत्वाभावेन जलत्वासिद्धिम् कारणतावच्छेदकधर्मासिद्धिमाशङ्कते-"अथ" इति ।
ननु-यथा अरण्यस्थितो दण्डो न घटादिकार्योपधायकः, तथापि तत्र दण्डत्वं कारणतावच्छेदकातिरस्त्येव, एवम्परमाणौ जन्यस्नेहाभावेऽपि तस्य स्नेहोत्पत्तियोग्यतावत्त्वात् 'जलत्व"आतिरस्त्येवेति प्रतिशङ्कते-"तस्य नित्यस्य स्वरूपयोग्यत्व"-इति । प्रकृते स्नेहोत्पत्तियोग्यत्वे इत्यर्थः । यदि परमाणौ स्नेहोत्पत्तियोग्यता तदा भवितव्यन्तत्र जन्यस्नेहेनापीति हृदयवानाह-"फलावश्यम्भाव
* कार्यतावच्छेदकञ्च नित्यवृत्ति चेति व्याहतम् । + “यत्र समवायेन कार्यन्तत्र तादात्म्येन द्रव्यम्" इति नियमः ।