________________
. विषयलक्षणम् , जलत्वजातिसिद्धिश्च । विशिष्टो हेतुर्वक्तव्य इत्यर्थः । यद्यपि घ्राणेन्द्रियसन्निकर्षो गन्धमात्राभिव्यञ्जकः, परमसौ न द्रव्यम्, किन्तु संयोगरूपत्वात् गुण इति भावः ।
(का०) विषयो द्वयणुकादिश्च ब्रह्माण्डान्त उदाहृतः ॥३८॥
(मुक्का०) विषय इति । उपभोगसाधनं विषयः। सर्वमेव हि कार्यजातमदृष्टाधीनम् । यत्कार्य यददृष्टाधीनं तत्तदुपभोगं साक्षात्परम्परया वा जनयत्येव । नहि बीजप्रयोजनाभ्यां विना कस्यचिदुत्पत्तिरस्ति । तेन घणुकादि ब्रह्माण्डान्तं सर्वमेव विषयो भवति । शरीरेन्द्रिययोर्विषयत्वेपि प्रकारान्तरोपन्यासः शिष्यबुद्धिवैशद्यार्थः ॥ ३६॥ ..
(प्रभा०) 8 "उपभोगसाधनम्" इति । सुखदुःखान्यतरसाक्षात्कार उपभोगः, तत्प्रयोजकः स सर्वोऽपि विषय एवेत्यर्थः । एवञ्च सर्वोऽपि गन्धवान् विषयः साक्षात्परम्परया च भोगहेतु: पार्थिवविषय इति फलति । अदृष्टस्य कार्यमात्रम्प्रति साधारणकारणत्वादाह-"सर्वमेव"- इति । ननु-सर्वस्यैवोपभोगसाधनत्वेन विषयत्वे शरीरेन्द्रिययोः पृथक् विभागोऽयुक्त इत्यत पाह- "शरीरेन्द्रिययोः"-इति । "शिष्यबुद्धि"- इति । शिष्याणाम्बुद्धिः इमानि शरीराणि, इमानि इन्द्रियाणि, तद्भिन्ना एते विषया अपि सन्तीति, इत्येवं या बुद्धिः तस्याः वैशद्यार्थ बालबोधनार्थमित्यर्थः । विस्तरस्तु-न्यायमञ्जूषादौ द्रष्टव्यः । गौरवभयादव तत्सारो नोद्धृतः। . इदन्तु बोध्यम्-गन्धवत्त्वे सति भोगायतनत्वम्पार्थिवशरीरत्वम् । गन्धवत्त्वे सति गन्धज्ञानकरणत्वम्पार्थिवेन्द्रियत्वम् । गन्धवत्त्वे सति उपभोगसाधनत्वम्पार्थिवविषयत्वम् । एषैव दिगन्यत्रापि जलीयादिशरीरादिषु अनुसरणीया ॥ ३८॥
इति पृथिवीग्रन्थः ।
(का०) वर्णः शुक्लो रसस्पर्शी जले मधुरशीतलौ। .
____ स्नेहस्तत्र द्रवत्वन्तु सांसिद्धिकमुदाहृतम् ॥३६॥
(मुक्ता०) जलं निरूपयति -वर्णः शुक्ल इति । स्नेहसमवायिकारणता. वच्छेदकतया जलत्वजातिः सिद्धयति । यद्यपि स्नेहत्वं नित्यानित्यवृत्तितया न कार्यतावच्छेदकम् , तथापि जन्यस्नेहत्वं तथा बोध्यम् ।
* साक्षात्परम्परासाधारणोपभोगप्रयोजकत्वमित्यर्थः । तेन घ्यणुकादे: साक्षादुपभोगसाधनत्वाभावेऽपि नाव्याप्तिः, तस्य परमाणुसाधारण्येऽपि न क्षतिः, तस्यापि विषयत्वादिति प्राचीना प्रभा।