________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे स्पर्शा: आदिपदार्थाः । अत्र सप्तम्या घटकत्वमर्थः, एतल्लाभायैव "मध्ये' इत्युक्तम् । तस्य गन्धपदसमभिव्याहृतैवकारार्थगन्धेतरविषयकज्ञानाऽजनकत्वघटकगन्धेतरस्मिन्नन्वयः । तथाच--रूपरसगन्धस्पर्शघटकीभूतं यद्गन्धेतरत्, तद्विषयकज्ञानाजनकत्वे सति गन्धविषयकज्ञानजनकत्वादिति हेतुरिति प्राचीना प्रभा।
हेतोरसिद्धिमाशङ्कय निराकरोति "नच" इत्यारभ्य "तदर्थत्वाद्” इत्यन्तेन । दृष्टान्ते कुङ्कुमगन्धाभिव्यञ्जकं गोघृतं न गन्धमात्राभिव्यञ्जकम् , किन्तु स्वरूपाभिव्यञ्जकमपीत्ययं हेतु: स्वरूपासिद्धः । यस्य हेतो: स्वरूपम् (हेतुतावच्छेदको धर्मः) एवासिद्धं नासौ साध्यसाधनायालमित्याक्षेप्तुराशयः।
"रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात्" इत्यस्य हेतोः परकीयरूपाद्यन्यञ्जकत्वमर्थः । तेन दृष्टान्त गोघृते स्वरूपव्यञ्जकत्वे सत्यपि परकीयरूपव्यञ्जकत्वम= स्वभिन्नकुकुमादिरूपव्यञ्जकत्वं नास्तीति हेतुः सिद्ध एव नासिद्ध इति समाधातुहृदयम् । पुनर्हेतोः व्यभिचारित्वं शङ्कते समाधत्ते च "नच" इत्यादिना । यस्यायमर्थ:-यो हेतुः साध्याधिकरणे वर्तमानः साध्याभावाधिकरणेऽपि वर्तेत असावनैकान्तिको व्यभिचारी वेत्युच्यते । .. प्रकृते च साध्यम्पार्थिवत्वम् । हेतुश्च "रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वात्' इति । परं यत्र नवे शरावे जलम्प्रक्षिप्यते, तदा तेन नवशरावगतो गन्धोऽभिव्यज्यते । जलन्तु न पार्थिवम्, अस्ति तु तत्र जलेऽपि गन्धाभिव्यञ्जकत्वम् तस्मादुक्को हेतुः पार्थिवत्वरूपसाध्याभाववति जले वर्तमानत्वादनैकान्तिकः।
ॐ अस्योत्तरम् –'सक्तुरसाभिव्यञ्जकत्वात्" इति । “यद्यप्येवं तथापि तजलं न केवलं गन्धमभिव्यनक्ति, किन्तु सक्तुरसमपि व्यनक्ति, तस्मात्तादृशजलस्य गन्धमानाभिव्यञ्जकत्वाभावान्न व्यभिचार" इत्यर्थः ।
परकीयेति विशेषणाऽप्रवेशे लाघवमभिप्रेत्याह-"यद्वा” इति । अर्थात् उक्नेऽनुमाने "परकीय"-इत्यादिविशेषणं नोपादेयम, घृतञ्च तादृशं न दृष्टान्तीकर्त्तव्यम्, किन्तु “वायूपनीतसुरभिभागवत्" इति दृष्टान्तो देयः । वायूपनीतसुरभिभागस्तु रूपादिषु मध्ये केवलं गन्धस्यैवाभिव्यञ्जकः । अनेन दृष्टान्तेन व्यभिचारादिसकलक्लेशवारणोपशमः स्वतःसंवृत्त इति भावः ।
ननु-घ्राणेन्द्रियसन्निकर्षोऽपि केवलं गन्धस्याभिव्यञ्जकः । एवञ्चोक्तसन्निकर्षे हेतोर्व्यभिचार इत्याशङ्कावारणाय "नच" इत्यादि "विशेषणात्" इत्यन्तमुक्तम् । "द्रव्यत्वे सति रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकत्वात्" इति द्रव्यत्व
O "सक्तुरसाभिव्यक्षकत्वात्" इत्यस्य फलितार्थमाह-"अस्योत्तरम्" इति । +प्रकारान्तरेण व्यभिचारशङ्कामुत्थापयति-"ननु"- इति ।