________________
घ्राणेन्द्रियस्य पार्थिवत्वसाधनम् ।
पृथिवीत्वं न केवलमन्त्यावयविवृत्तिः, किन्तु प्रारम्भकेषु पार्थिवावयवेष्वपि तद्वर्तते । मनुष्यत्वादिकन्तु अन्त्यावयविमात्रवृत्ति चेष्टावद्वृत्ति चेति न कश्चिद्दोष इत्यर्थः । "नच नृसिंह"--इति । “कथं लक्षणसमन्वय” इति । नृसिंहशरीरे कथं शरीरलक्षणं योजनीयमित्यर्थः । “एकव्यक्तिवृत्ति" इति । व्योरभेदस्य जातिबाधकत्वादिति भावः । अथ देवत्वमादाय लक्षणं योज्येत ? तत्राह-“देवत्वस्य"इति । तथापि सार्यञ्जातिबाधकं स्यादिति भावः । तथाहि-"जलीयतैजस"इत्यादिग्रन्थस्यायमर्थः---देवत्वं विहाय तैजसत्वं सुवर्णादिषु, तैजसत्वं विहाय देवत्वं जलीयदेवेषु वरुणादिषु, तदुभयसमावेशः तैजसदेवेषु सूर्यादिषु इति साङ्कयं देवत्वस्य जातित्वे बाधकम् । “कल्पभेदेन" इति समाधानग्रन्थः । नृसिंहत्वं जातिरेवेति नृसिंहावतारशरीरेऽपि न लक्षणासङ्गतिरित्यर्थः । यदा तु साङ्कर्यस्य जातिबाधकत्वं नाभीष्टं तदा देवत्वस्य जातित्वे न दोषः ।
(का०) इन्द्रियं घ्राणलक्षणम् ।
(मुक्ता०) इन्द्रियमिति । घ्राणेन्द्रियम्पार्थिवमित्यर्थः । पार्थिवत्वं कथमिति चेदित्थम् । * घ्राणेन्द्रियम्पार्थिवं रूपादिषु मध्ये गन्धस्यैव व्यञ्जकत्वात् । कुङ्कुमगन्धाभिव्यञ्जकगोघृतवत् । नच दृष्टान्ते स्वकीयरूपादिव्यञ्जकत्वादसिद्धिरिति वाच्यम्, परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात् । नच नवशरावगन्धव्यञ्जकजलेऽनैकान्तिकत्वमिति वाच्यम्, तस्य सक्तुरसाभिव्यञ्जकत्वात् । यद्वा परकीयेति न देयं वायूपनीतसुरभिभागस्य दृष्टान्तत्वसम्भवात् । नच घ्राणेन्द्रियसन्निकर्षस्य गन्धमात्रव्यञ्जकत्वात्तत्र व्यभिचार इति वाच्यम् , द्रव्यत्वे सतीति विशेषणात् ।
(प्रभा०) “इन्द्रियमिति"--इति स्पष्टम् । इन्द्रियसामान्यलक्षणन्तु-- "प्रात्मान्यत्वे सति ज्ञानकारणमन:संयोगाश्रयत्वमिन्द्रियत्वम्" ।एतच्चाग्रेऽपि मूले स्फुटीभविष्यति । घ्राणेन्द्रियस्य पार्थिवत्वसाधकमनुमानमाह--"घ्राणेन्द्रियम्" इति । यद्यत् रूपादिषु मध्ये गन्धस्यैवाभिव्यञ्जकं तत्तत् पार्थिवं दृष्टं यथा कुङकुमगन्धाभिव्यञ्जकगोघृतमिति । प्रतिबन्धसिद्धिः । “रूपादिषु मध्ये' इत्यत्र रसगन्ध
* नाणेन्द्रियत्वावच्छिन्नोद्देश्यतानिरूपितसमवायतादात्म्यान्यतरसम्बन्धावच्छिन्नपार्थिवत्वा. वच्छिन्नपार्थिवनिष्ठविधेयताकानुमितित्वावच्छिन्नम्प्रति पार्थिवनिष्ठव्याप्तिप्रकारतानिरूपिता या रूपादिमध्यविशिष्टगन्धीयाभिव्यञ्जकत्वावच्छिन्ना प्रकारता, तादृशप्रकारतानिरूपिता या प्रणेन्द्रियत्वावच्छिन्ना विशेष्यता, तादृशविशेष्यताशालिनिर्णयः परामर्शत्वेन रूपेण 'घ्राणेन्द्रिम्पार्थिवम्" इत्याकारानुमितिम्प्रति विशिष्य कारणमित्येवंरीत्या सर्वत्रानुमानेषु कार्यकारणभावलापनञ्ज्ञेयम् ।
+ मूले-इन्द्रियलक्षणं क्लिष्टम् , इदन्तु सरलमित्यपि बोध्यम् । * प्रतिबन्धो व्याप्तिः।