________________
६६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[प्रत्यक्षखण्डे
संरोहणादिना तदनुमानात् । यदि हस्तादौ शरीरव्यवहारो न भवति तदान्त्यावयवित्वेन विशेषणीयम् । नच यत्र शरीरे चेष्टा न जाता तत्राव्याप्तिरिति वाच्यम् , तादृशे प्रमाणाभावात् ।
(प्रभा०) "आध्यात्मिक"- इति । आध्यात्मिकः प्राणाख्यो वायुः । “भग्नक्षत" इति । भग्नक्षतयोविभागविशेषश्लिष्टावयवयोः संरोहणादिकम् । आदिना वृद्धिपरिग्रहः। ... अयमाशयः- "वृक्षादि शरीरमाध्यात्मिकवायुसम्बन्धवत्वात् मानुषशरीरवत् , वृक्षादिराध्यात्मिकवायुसम्बन्धवान् भन्नक्षतसंरोहादिमत्वात् अस्मदादिशरीरवत्" इत्यनुमानाभ्यां वृक्षादीनां शरीरत्वसिद्धिः । प्रागमोऽप्यत्र प्रमाणम्10. शरीरजैः कर्मदोषैर्याति स्थावरतां नरः" इति मनु०।
"अन्तः संज्ञा भवन्त्येते सुखदुःखसमन्विता" इति च । , वृक्षादिषु स्फुटतरचेष्टादिप्रतीतेरभावात् प्रायः शरीरव्यवहारो न प्राकृतानामिति ज्ञेयम् । ......... . ननु-"चेष्टाश्रयः शरीरम्" इति लक्षणं हस्तपादाद्यवयवेऽपि वर्त्तते, नतु तुत्र शरीरव्यवहार इत्याशङ्कायामाह-“यदि" इति । “अन्त्यावयवित्वेन"इति। "अन्त्यावयवित्वे सति चेष्टाश्रयः शरीरम्” इति लक्षणं कर्त्तव्यमित्यर्थः । द्रव्यान्तरानारम्भकत्वमन्त्यावयवित्वम् । एवञ्च-घटादावतिव्याप्तिवारणाय चेष्टाश्रयत्वम् । हस्तपादाद्यवयवेऽतिव्याप्तिवारणाय अन्त्यावयवित्वम् इति बोध्यम् । आशङ्कय समाधत्ते-"नच यत्र" इति ।
(मुक्का०) अथवा चेष्टावदन्त्यावयविवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वं वा तत् । मानुषत्वचैत्रत्वादि जातिमादाय लक्षणसमन्वयः। नच नृसिंहशरीरे कथं लक्षणसमन्वयः, तत्र नृसिंहत्वस्यैकळ्यक्तिवृत्तितया जातित्वाभावाजलीयतैजसशरीरवृत्तितया, देवत्वस्यापि जातित्वाभावादिति वाच्यम , कल्पभेदेन नृसिंह. शरीरस्य नानात्वेन नृसिंहत्वजात्या लक्षणसमन्वयात् ।
__ (प्रभा०) मृतशरीरे चेष्टाया अभावेऽपि शरीरव्यवहारसत्त्वादुक्कलक्षणस्याव्याप्ती कल्पान्तरमाह-"अथवा" इति । अयमर्थः-चेष्टावांश्वासावन्त्यावयवी, तादृशेऽ-- वयविनि वृत्तिर्यस्या: सा चासौं द्रव्यत्वस्य साक्षाव्याप्या जातिर्मनुष्यत्वचैत्रत्वादिकं वेति तादृशजातिमत्त्वं मृतशरीरेऽपि वर्तत इति नाव्याप्तिः।
ननु-अत्र लक्षणे "दव्यत्वव्याप्यजाति" पदेन "पृथिवीत्व"मपि धत्तुं शक्यते, तादृशजातिमत्त्वञ्च घटादावपीति शरीरलक्षणं घटादौ गतमित्याशङ्कयाह- "अन्त्यावयवि"-इति । अन्त्यावयविमात्रवृत्तिर्या चेष्टाववृत्तिजातिः तादृशजातिमत्त्वमिष्टम् ।