________________
शरीरलक्षणम् ।
&*
ष्मादेः” – इति । क्लेदः-क्षरणम्, स्वेद इति यावत् । ऊष्मा=पाकविशेषः श्रौष्ण्यमिति यावत् । “सङ्करप्रसङ्गात् " - इति । पृथिवीत्वं विहाय शरीरत्वं जलादित्रितयशरीरेषु, शरीरत्वं विहाय पृथिवीत्वं घटादौ मानुषशरीरे तु पृथिवीत्वशरीरत्वयोर्द्वयोः समावेश इति जातिबाधकसङ्करदोषभयादित्यर्थः । पार्थिवशरीरे क्लेदादिप्रतीतिस्तु जलादिभागस्योपष्टम्भकत्वेनाप्युपद्यते, तेन तत्र श्राप्यत्वादिकमपि नेति भावः ।
,
-
आक्षिप्य समाधत्ते – “नच" इत्यादिना । " शरीरत्वेन प्रत्यभिज्ञानात् " इति । "तदेवेदञ्चैत्रशरीरम्, तदेवेदम्मैत्रशरीरम्" इत्याकारकप्रत्यभिज्ञासत्त्वात् । पूर्वदृष्टस्य कालान्तरे पुनरिन्द्रियसम्प्रयोगे " तदेवेदम्" इत्याकारकं ज्ञानं प्रत्यभिज्ञा । प्रत्यभिज्ञा, प्रतिसन्धानमित्यनर्थान्तरम् । तत्रैव हेत्वन्तरमाह - "गन्धाद्युपलब्धेश्व”ध्वंसपर्यन्तं मनुष्यशरीरे गन्धाद्युपलम्भादित्यर्थः । पृथिवीत्व सिद्धेः- मानुषादिशरीराणां पार्थिवकार्यत्वसिद्धिरिति भावः ।
“शरीरत्वं न जाति: ” - इति । श्रस्यार्थः पूर्वग्रन्थार्थेन गतार्थः । श्रर्थात् शरीरत्वाभावाधिकरणे घटादौ पृथिवीत्वम्, पृथिवीत्वाभावाधिकरणे वरुणादिशरीरे शरीरत्वम्, ते उभे एव मनुष्यादिशरीरे इति साङ्कर्यात् शरीरत्वं न जातिरिति । शरीरं लक्षयति – “चेष्टाश्रयत्वम् " - इति । चेष्टात्वं जातिविशेषः, चेष्टत इति प्रत्यक्षप्रतीतिसिद्धः प्रयत्नजन्यतावच्छेदकः । तथाच पारमर्ष सूत्रम् -
"चेष्टेन्द्रियार्थाश्रयः शरीरम् ” ( न्या० १ । १ । ११ ) इति ।
(मुक्का० ) नच वृक्षादेः शरीरत्वे किम्मानमिति वाच्यम्, श्रध्यात्मिक वायुसम्बन्धस्य प्रमाणत्वात् । तत्रैव किम्मानमिति चेद्भग्नक्षत* ईप्सितं जिहासितमर्थमधिकृत्य ईप्सा जिहासाप्रयुक्तस्य तदुपायानुष्ठानलक्षणा समीहा "चेष्टा" इति भाष्यकारः ।
अत्रेदम्बोध्यम् - " चेष्टेन्द्रियार्थाश्रयः शरीरम्" इत्यषि शरीरलक्षणे यद्यपि चेष्टा स्पन्दमात्रमभिहितम्, तथापि उत्पत्तिसामर्थ्यात् हिताऽहितप्राप्तिपरिहारार्था क्रिया विवक्षिता । तथाच—न घटादावतिप्रसङ्गः । श्रत्राश्रयत्वमप्यनुविधानरूपमेव ग्राह्यम् । शरीरे पतिते चेष्टादिकं नश्यति, उत्पन्ने च तस्मिन्प्रविशति इति शरीरानुविधानमेव शरीराश्रयत्वम् । एवं वात्स्यायनीयभाष्यानुसारेण प्रत्येकं लक्षणम् । परैश्च सम्पूर्णमेव लक्षणमुक्तम् । तत्र — चेष्टाश्रय इत्युक्ते घटेऽतिप्रसङ्गः तस्यापि स्पन्दरूप चेष्टाश्रयत्वात् । अत उक्तम् — इन्द्रियेति । तथापि — इन्द्रियाणां प्राप्यकारित्वेन इन्द्रियसंयोगित्वाद् घटादेः पुनस्तत्रैवातिप्रसङ्गः । अत उक्तम् — श्रर्थेति । अर्थाश्रयत्वमपि घटादेः, तेषामपि रूपाद्यर्थाश्रयत्वात् पुनस्तत्रैव प्रतिप्रसङ्गः । यदि च इन्द्रियाश्रय इत्यत्र इन्द्रियस्य समवायेनाश्रय इति विवक्षितं तदाऽसम्भवः इन्द्रियस्य स्वावयवमात्रे समवायात् । किञ्च—घ्राणादिपार्थिवेन्द्रियाणां समवेतत्वेऽपि श्रोत्रमनसोर्नित्यत्वेनाऽसमवेतत्वात् सम्पूर्णस्यापि लक्षणस्य परमाणुष्वतिप्रसङ्गात् नैतदुपादेयमिति विभावनीयं सुधीभिः ।