________________
१४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [प्रत्यक्षखण्डे भिसम्बन्धात्पृथिवी" इत्युक्त्वा “नित्यानित्या च” इति चाभिधाय “त्रिविधञ्चास्याः कार्य शरीरेन्द्रियविषयसज्ञकम्” इति प्रशस्तोक्कम् ॥ ३७॥
(का०) योनिजादि भवेद्देहम्
(मुक्का०) तत्र देहमुदाहरति-योनिजमयोनिजश्चेत्यर्थः । योनिजमपि द्विविधम्-जरायुजमण्डजञ्च । जरायुजं मानुषादीनाम् । अण्डजं सादीनाम् । अयोनिजं खेदजोद्भिजादिकम् । खेदजाः कृमिदंशाद्याः । उद्भिजास्तरुगुल्माद्याः। नारकिणां शरीरमप्ययोनिजम् । नच मानुषादिशरीराणाम्पार्थिवत्वे किम्मानमिति वाच्यम्, गन्धादिमत्वस्यैव प्रमाणत्वात् । नच क्लेदोष्मादेरुपलम्भादाप्यत्वादिकमपि स्यादिति वाच्यम् , तथा सति जलत्वपृथिवीत्वादिना सङ्करप्रसङ्गात् । नच तर्हि जलीयत्वादिकमेवास्तु न तु पार्थिवत्वमिति वाच्यम्, क्लेदादीनां विनाशेऽपि शरीरत्वेन प्रत्यभिज्ञानाद्गन्धाधुपलब्धेश्च पृथिवीत्वसिद्धेः। तेन पार्थिवादिशरीरे जलादीनां निमित्तत्वमात्रम्बोध्यम् । शरीरत्वन्तु न जाति: पृथिवीत्वादिना साङ्कर्यात्, किन्तु चेष्टाश्रयत्वम् । वृक्षादीनामपि चेष्टासवान्नाव्याप्तिः।
(प्रभा०) पार्थिवशरीरं विभज्य दर्शयति-"योनिजम्" इति । शुक्र. शोणितयोः परस्परमेलनजन्यं योनिजम् , तद्भिन्नमयोनिजम् । “जरायुजम्" इति । गर्भवेष्टनचर्मपुटकं जरायुः । "अयोनिजम्" इति । तथाच पारमर्ष सूत्रम्
"तत्र शरीरं द्विविधं योनिजमयोनिजञ्च" (वै० २।५)। एतस्मिन्विषये वेदोऽपि प्रमाणम् । तथाहिविश्वान्देवाञ्जगत्याविवेश । तेन चाक्लुपे ऋषयो मनुष्याः।
(ऋग्वेद अ० ८।७ व० १८।५) तस्मादश्वा अजायन्त येके चोभयादतः । गावो ह जज्ञिरे तस्मात् तस्माजाता अजावयः ॥ (ऋग्वेद अ०८।४ व० १८१०) इत्यादि ।
"आदिकम्" इति । आदिना देवर्षीणां ग्रहणम् । “देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते” इति प्रशस्तम् । “नारकिणाम्" इति । अधर्मविशेषसहितेभ्योऽणुभ्यो नारकिणां शरीरोत्पत्तिः, तथैव चद्रजन्तूनामपि । "मानुषादीनाम्" इति । अादिना पशुमृगादीनाम्परिग्रहः । “सादीनाम्"इत्यादिना विहङ्गमादिपरिग्रहः । स्वेदजमुदाहरति-"कृमिदंशाद्या"-इति । यत्तु“योनि विना न शरीरम्” इति सर्वाणि शरीराणि योनिजानीति कथनं तत्र “योनि". पदं कारणमात्रपरं द्रष्टव्यम्।
मानुषादिशरीराणाम्पार्थिवत्वं साधयितुं "नच" इत्यादि अनाति । "क्लेदो.