________________
परमाणुसिद्धिः, कार्यरूपायाः पृथिव्याः त्रयः प्रकाराश्च ।
१३
तर्करहितमित्यर्थः । त्रसरेण्वात्मके पक्षे चातुषद्रव्यत्वं हेतुरस्तु सावयवत्वं साध्य माभूत् विपक्षे बाधकतर्कानवतारादित्याक्षेपप्रकारः ।
, “यदि सावयवत्वं न स्यात् तदा चाक्षुषद्रव्यत्वमपि न स्यात्" इत्ययमेव विपक्ष बाधकस्तर्कः (नहि चाक्षुषद्रव्यत्वाभाववानाकाशादिः सावयवः) इति समाधिप्रकारः।
अयम्भावः-"त्रिभि_णुकैरेकं त्र्यणुकमारभ्यते'. इत्यस्ति न्यायलयः । तस्मादनेकावयविजन्यद्रव्यत्वेन त्र्यणुके अपकृष्टमहत्त्वमुत्पद्यते । अपकृष्टमहत्त्वं प्रत्यनेकावयविजन्यद्रव्यत्वस्य प्रयोजकत्वं (हेतुभावो) यतः । यदि तु त्र्यणुके चातुपदव्यत्वं स्वीक्रियेत, नतु ,सावयवत्वम्, तदा अपकृष्टमहत्त्वानेकावयविजन्यद्व्यत्वयोः कार्यकारणभावभङ्गप्रसङ्ग एव स्यात् । तस्मात् त्र्यणुके सावयवत्वमकामेनाप्यभ्युपेयम् । ..
____ अथ त्रसरेणोरवयवे व्यणुके एव अवयवत्वधाराया. बिश्रामः , स्यादित्युच्यते ? तदपि न, यो महद्रारम्भुकोऽवयवः, स घटाद्यारम्भककपालादिवत्सावयव एकः भवति नतु निरवयवः । अस्ति च. ड्यणुके महत्तस्त्रसरेणोरारम्भकत्वम् ।। ननु-त्र्यणुकषद् ब्यणुकेऽपि "यणुकावयवाः सावयवा. महदारम्भकत्वात्कपालवत्' इत्यनुमानेन (ब्यणुकावयवानामपि) सोवयव्रता स्यादित्येवमेवोत्तरोत्तरमवयवधाराविश्रान्तिन भवेदिति चेन्न, यणुके महत्त्वाभावात् ब्यणुकावयवा न महदारम्भका: । "द्वाभ्यास्परमाणुभ्यामेकं यणुकमारभ्यतः' इति सिद्धान्तेन यणुकमनेकावयवजन्यं ततु अनेकावषविजन्यम, अनेकावयविजन्यत्वाभावादेव ब्यणुकेऽपकृष्टमहत्त्वमेव नास्ति, कुतो महत्त्वमिति हृदि हत्या "न चैवं क्रमेण तदवयवधारापि सिध्येत्” इत्याद्युक्तम् । एवञ्च व्यणुकावयवो मिरवयक एषितव्यः, स एव परमाणुः, अणुपरिमाणस्य परोऽवधिः । ..."
(का०) सा च त्रिधा भवेद्देहमिन्द्रियं विषयस्तथा ॥३जा
(मुक्ता०) सा चेति । सा कार्यरूपा पृथिकी विधेल्यर्थः। शरीरेन्द्रियविषयभेदादित्यर्थः ॥ ३७॥ .. - (प्रभा०) “सा'चेति" इति । स्पष्टम् । उकसर्वग्रन्थमूलन्तुः पृथिवीत्वा
: अत्राह कन्दलीकारः-“यो हि पृथिवीं स्वरूपतो जानन्नपि कुतश्चिव्यामोहात् पृथिवीति न व्यवहरति तम्प्रति विषयसम्बन्धाव्यभिचारेण व्यवहारसाधनार्थमसाधारणो धर्मः कथ्यते” इति । (एवं सति)—"इयम्पृथिवीति व्यवहर्तव्या पृथिवीत्वाभिसम्बन्धात् यत्पुन: पृथिवीति न व्यवहियते न तत्पृथिवीत्वाभिसम्बद्धं यथाबादिकम्'-(इत्यनुमानम्फलति)।
केचित्तु-पृथिवीत्वस्य लक्ष्यतावच्छेदकत्वान्न लक्षणत्वमित्याहु: । दिनकरभट्टादयस्तु - पृथिवी त्वजातिरपि पृथिव्या लक्षणम् । नच व्यतिरेकसहचौरेणाऽन्वयव्याप्तिरेव गृह्यते इत्याचार्यमते पक्षतावच्छेदकस्य न हेतुत्वमिति वाच्यम् । “हेतुः साध्यसमानाधिकरण" इति ज्ञानेऽपि "हेतुमान् साध्यवान्" इति बाधस्याऽनिष्पन्नत्वेन पक्षतावच्छेदकत्वेऽपि हेतुत्वाऽविरोधात् इत्याचक्षते । अधिकमन्यत्र ।